________________
सिद्धान्तकौमुद्याम् सब्रह्मचारी ॥ तीर्थे ये।६।३२८७॥ तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः एकगुरुकः । समानतीर्थेवासीति यत्प्रत्ययः ॥ विभाषोदरे ।६।३।८८॥ यादौ प्रत्यये विवक्षिते इत्येव । सोदर्यः । समानोदर्यः । दृग्श वतुषु ।६।३।८९ ॥ सदृक् । सदृशः ॥ दृक्षे चेति वक्तव्यम् * ॥ सदृक्षः । वतुरुत्तरार्थः ॥ इदंकिमोरीशकी ।६।३।९० ॥ दृग्दृशवतुषु इदम ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः। वतूदाहरणं वक्ष्यते । दृक्षे च ईदृक्षः । कीदृक्षः ॥ आ सर्वनाम्नः ॥ दृक्षे च । तादृक् । तादृशः । तावान् । तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृक् । अमूदृशः । अमूहक्षः ॥ समासेऽङ्गुले सङ्गः ।।३३८० ॥ अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः ॥ भीरोः स्थानम् ।८।३।८१ ॥ भीरुशब्दात् स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु । भीरोः स्थानम् ॥ ज्योतिरायुषः स्तोमः ।८३।८३ ॥ आभ्यां स्तोमस्य सस्य मूर्धन्यः स्यात्समासे । ज्योतिष्टोमः । आयुष्टोमः । समासे किम् । ज्योतिषः स्तोमः ॥ सुंषामादिषु च ।।३।९८ ॥ सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा सुषन्धिः ॥ एति संज्ञायामगात् ।८।३।९९ ॥ सस्य मूर्धन्यः । हरिषेणः ॥ एति किम् । हरिसक्थम् । संज्ञायां किम् । पृथुसेनः । अगकारात्किम् । विष्वक्सेनः । इण्कोरित्यव । सर्वसेनः ॥ नक्षत्राद्वा ।८३१००॥ एति सस्य संज्ञायामगकारान्मूर्धन्यो वा। रोहिणीषेणः । रोहिणीसेनः । अगकारात्किम् । शतभिपक्सेनः । आकृतिगणोऽयम् ॥ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु ।६।३।९९ ॥ अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । अषष्ठीत्यादि किम् । अन्यस्याऽन्येन वाशीः अन्याशीः । कारके छे च नायं निषेधः । अन्यस्य कारकः अन्यत्कारकः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः ॥ अर्थे विभाषा ।६।३।१००॥ अन्यदर्थः अन्यार्थः ।। को कत्तत्पुरुषेऽचि ।६।३।१०१॥ अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदन्नम् । तत्पुरुषे किम् । कूष्ट्रो राजा ॥ त्रौ च * ॥ कुत्सितास्त्रयः कत्रयः ॥ रथवदयोश्च ।६।३। १०२॥ कद्रथः। कद्वदः ॥ तृणे च जातौ ।६।३।१०३ ॥ कत्तृणम् ॥ का पथ्यक्षयोः ।६।३।१०४॥ कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन बहुव्रीहिर्वा ॥ ईषदर्थे ।६।३।१०५ ॥ ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ॥
__ . सुषामा, निःषामा, दुःषामा, सुषेधः, निःषेधः, दुःषेधः, सुषन्धिः, निःषन्धिः, दुःषन्धिः, सुष्टु, दुष्टु, गौरिषक्थः संज्ञायाम् , प्रतिष्णिका, जलाषाहम् , नौषेचनम् , दुन्दुभिषेवणम् , एतिसंज्ञायामगात् हारषेणः, मक्षत्राद्वा । रोहणीषणः । आकृतिगणोऽयं षामादि ॥
२ एति संज्ञायामगात् , नक्षत्राद्वा । एतद्गणसूत्रद्वयमपि कैश्चित्पाणिनीयसूत्रपाठे प्रक्षिप्तम् ॥