________________
समासाश्रयविधयः। पुत्रः ॥ बन्धुनि बहुव्रीहौ ।६।१।१४॥ बन्धुशब्दे उत्तरपदे प्यङः संप्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः । बहुव्रीहाविति किम् । कारीषगन्ध्याया बन्धुः करीषगन्ध्याबन्धुः । क्लीबनिर्देशस्तु शब्दखरूपापेक्षया ॥ मातज्मातृकमातृषु वा * ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह । कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसाम
सृच्चित्वरो बहुव्रीहिवरं बाधते ॥ इष्टकेषीकामालानां चिततूलभारिषु ।६। ६५ ॥ इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु हखः स्यात् । इष्टकचितम् । पक्केष्टकचितम् । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारी । उत्पलमालभारि ॥ कारेसत्यागदस्य ।६।३।७० ॥ मुम् स्यात् । सत्यङ्कारः । अगदकारः । अस्तोश्चेति वक्तव्यम् * ॥ अस्तुङ्कारः ॥ धेनोभव्यायाम् * ॥ धेनुम्भव्या ॥ लोकस्य पृणे * ॥ लोकम्पृणः । पृण इति मूलविभुजादित्वात्कः ॥ इत्येऽनभ्याशस्य * ॥ अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः । भ्राष्ट्राम्योरिन्धे * ॥ भ्राष्ट्रमिन्धः । अग्निमिन्धः ॥ गिलेऽगिलस्य * ॥ तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः ॥ गिलगिले च * ॥ तिमिङ्गिलगिलः ॥ उष्णभद्रयोः करणे * ॥ उष्णङ्करणम् । भद्रकरणम् ॥ रात्रेः कृति विभाषा ।६३।७२॥ रात्रिञ्चरः । रात्रिचरः । रात्रिमटः । राज्यटः । अखिदर्थमिदं सूत्रम् । खिति तु अरुर्द्विषदिति नित्यमेव वक्ष्यते । रात्रिंमन्यः ॥ सहस्य सः संज्ञायाम् ।६।३।७८ ॥ उत्तरपदे । सपलाशम् । संज्ञायां किम् । सहयुध्वा ॥ ग्रन्थान्ताधिके च ।६३७९ ॥ अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्त ज्योतिषमधीते । सद्रोणा खारी ॥ द्वितीये चानुपाख्ये ।।३।८०॥ अनुमेये द्वितीये सहस्य सः स्यात् । सँराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयाऽनुमीयते ॥ समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु ।। ३२८४ ॥ समानस्य सः स्यादुत्तरपदे न तु मूर्धादिषु । अनु भ्राता सगर्व्यः । अनु सखा सयूथ्यः । योनः सनुत्यः । तत्रभव इत्यर्थे सगर्भसयूथसनुताद्यत् । अमूर्धादिषु किम् । समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्येति योगो विभज्यते । तेन समक्षः साधर्म्य सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोप्यस्ति । सदृशः सख्या ससखीति यथा । तेनायमखपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ॥ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ।६।३।८५ ॥ एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः। सजनपद इत्यादि ॥ चरणे ब्रह्मचारिणि ।६।३।८६॥ ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याचरणे समानत्वेन गम्यमाने । चरणः शाखा । ब्रह्म वेदः । तदध्ययनार्थं व्रतमपि ब्रह्म तच्चरतीति ब्रह्मचारी । समानः सः
१ सहे चेति वनिपि उपपदसमासः ॥ २ अन्तवचनेऽव्ययीभावः ॥ ३ बहुव्रीहिः नवृतश्चेति कप् ।