________________
सिद्धान्तकौमुद्याम् ३३५२ ॥ एषूत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । अज्यतिभ्यां पादे चेतीण प्रत्ययः । अजेय॑भावो निपातनात् । पदगः। पदोपहतः । पद्यत्यतदर्थे ।६।२५३ ॥ पादस्य पत्स्यादतदर्थे यति परे । पादौ विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । पादावा॑भ्यां चेति यत् ॥ इके चरतावुपसंख्यानम् * ॥ पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् ॥ हिमकाषिहतिषु च ।६।३।५४ ॥ पद्धिमम् । पत्काषी । पद्धतिः ॥ ऋचः शे।६।३३५५॥ ऋचः पादस्य पत्स्याच्छे परे । गायत्री पच्छः शंसति । पादपादमित्यर्थः । ऋचः किम् । पादशः कार्षापणं ददाति ॥ वा घोषमिश्रशब्देषु ।६।३।५६ ॥ पादस्य पत् । पद्धोषः । पादघोषः । पन्मिश्रः । पादमिश्रः । पच्छब्दः । पादशब्दः ॥ निष्के चेति वाच्यम् * ॥ पन्निष्कः । पादनिष्कः ॥ उदक. स्योदः संज्ञायाम् ।६।३।५७ ॥ उदमेघः ॥ उत्तरपदस्य चेति वक्तव्यम् * ॥ क्षीरोदः ॥ पेषंवासवाहनधिषु च ।६।३१५८ ॥ उदपेषंपिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् ॥ एकहलादौ पूरयितव्येऽन्यतरस्याम् ।। ३३५९॥ उदकुम्भः । उदककुम्भः । एकेति किम् । उदकस्थाली । पूरयितव्येति किम् । उदकपर्वतः मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ।६३।६० ॥ उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ॥ इको इस्वोड्यो गालवस्य ।६।३।६१॥ इगन्तस्याङ्यन्तस्य हखो वा स्यादुत्तरपदे । ग्रामणिपुत्रः । ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङय इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः ॥ इयवङ्भाविनामव्ययानां च नेति वाच्यम् * ॥ श्रीमदः । भ्रूभङ्गः । शुक्लीभावः ॥ अभ्रकुंसादीनामिति वक्तव्यम् * ॥ भुकुंसः । भ्रुकुटिः । भ्रूकुंसः । भृकुटिः । अकारोऽनेन विधीयत इति व्याख्यानान्तरम् ॥ भ्रकुंसः । भ्रकुटिः । ध्रुवा कुंसो भाषणं शोभा वा यस्य सः स्त्रीवेषधारी नर्तकः । भुवः कुटिः कौटिल्यम् ॥ एकतद्धिते च ।६।३।६२ ॥ एकशब्दस्य हवः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतं एकरूप्यम् ।। एकक्षीरम् ॥ ड्यापोः संज्ञाछन्दसोबहुलम् ६।३६३ ॥ रेवतिपुत्रः । अजक्षीरम् ॥ त्वे च ६३६४ ॥ त्वप्रत्यये ड्यापोर्वा हवः । अजत्वम् । अजात्वम् । रोहिणित्वम् । रोहिणीत्वम् ॥ व्यडः संप्रसारणं पुत्रपत्योस्तत्पुरुषे ।६।११३ ॥ प्यङन्तस्य पूर्वपदस्य संप्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुष ॥ संप्रसारणस्य ।६।३। १३९ ॥ संप्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया हखो न। स्त्रीप्रत्यये चानुपसर्जनेनेति तदादिनियमप्रतिषेधात् । परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमान्नेह । 'अतिकारीषगन्ध्या
- १ एकहलादौ असहायहलादौ असंयोगादाविति यावत् ॥ २ ष्य इति संप्रसारणे पूर्वरूपे च अल्विधित्वेपि दीर्घविधानसामर्थ्यात् स्थानिवत्वेन संप्रसारणत्वे दीर्घ इति भावः ॥ ३ इको हव इत्यनेन प्राप्तः ॥