________________
समासाश्रयविधयः ।
९१
||३ | ३ | २० || सप्तम्या अलुन । समस्यः । भाषायां किम् । कृष्णोऽस्याखरेष्ठः ॥ षष्ठया आक्रोशे|६|३|२१|| चौरस्य कुलम् । आक्रोशे किम् । ब्राह्मणकुलम् ॥ वाग्दिक्पयो युक्तिदण्डहरेषु * ॥ वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः || आमुष्यायणाऽऽमुष्यपुत्रिकाऽऽमुष्यकुलिकेति च * || अमुष्यापत्यं आमुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भावः आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ् । एवमामुष्यकुलिका ॥ देवानांप्रिय इति च मूर्खे * ॥ अन्यत्र देवप्रियः || शेपपुच्छलाङ्गूलेषु शुनः * ॥ शुनःशेषः । शुनः पुच्छः । शुनोलाङ्गूलः || दिवश्च दासे * ॥ दिवोदासः ॥ पुत्रेऽन्यतरस्याम् |६|३|२२ ॥ षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रः । दासीपुत्रः । निन्दायां किम् । ब्राह्मणीपुत्रः ॥ ऋतो विद्यायोनिसंबन्धेभ्यः । ६।३।२३ ॥ विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तात्षष्ठ्या अलुक् । होतुरन्तेवासी । होतुः पुत्रः । पितुरन्तेवासी । पितुः पुत्रः ॥ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् * || नेह होतृधनम् ॥ विभाषा स्वसृपत्योः | ६|३|२४ ॥ ऋदन्तात्षष्ठ्या अलुग् वा स्वसृपत्योः परयोः ॥ मातुः पितुर्भ्यामन्यतरस्याम् |८|३|८५ ॥ आभ्यां वसुः सस्य षो वा स्यात् समासे । मातुःष्वसा । मातुःखसा । पितुःष्वसा । पितुःस्वसा । लुक्पक्षे तु ॥ मातृपितृभ्यां खसा |८|३|८४ || आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः खसा ||
॥ इत्यलुक्समासः ॥
धरूपकल्पप्चेलडुब्रुत्रगोत्रमतहतेषु ङयोऽनेकाचो हखः | ६| ३ | ४३ ॥ भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो हखः स्यात् घरूपकल्पप्प्रत्ययेषु परेषु चेलडादिषु चोत्तर - पदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्राह्मणिब्रुवा । ब्राह्मणिगोत्रेत्यादि । ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि तैः कुत्सितानि कुत्सिनैरिति समासः । ड्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ॥ नद्याः शेषस्यान्यतरस्याम् । ६।३।४४ ॥ अङ्यन्तनद्या ङ्यन्तस्यैकाचश्च घादिषु खो वा स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । स्त्रितरा । स्त्रीतरा ॥ कृन्नद्या न * ॥ लक्ष्मीतरा ॥ उगितश्च |६|३|४५ ॥ उगतः परा या नदी तदन्तस्य घादिषु हखो वा स्यात् । विदुषितरा । स्वाभावपक्षे तु तसिलादिष्विति पुंवत् । विद्वत्तरा । वृत्त्यादिषु विदुषीतरेत्यप्युदाहृतं तन्निर्मूलम् || हृदयस्य हृल्लेखयदणलासेषु |६|३|५० ॥ हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हृल्लासः । लेखेत्यणन्तस्य ग्रहणम् । घञि तु हृदयलेखः । लेखग्रहणमेव ज्ञापकं उत्तरपदाधिकारे तदन्तविधिर्नास्तीति ॥ वा शोकष्यञरोगेषु | ३ | ३|५१ ॥ हृच्छोकः । हृदयशोकः । सौहार्धम् । सौहृदय्यम् । हृद्रोगः । हृदयरोगः । हृदयशब्दपर्याय हृच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् || पादस्य पदाज्यातिगोपहतेषु | ६ |