________________
सिद्धान्तकौमुद्याम् कृतम् । आर्जवेन कृतमित्यर्थः ॥ पुंसानुजो जनुषान्ध इति च * ॥ यस्याग्रजः पुमान् स पुंसानुजः । जनुषान्धो जात्यन्धः ॥ मनसः संज्ञायाम् ।६।३।४॥ मनसागुप्ता ॥ आज्ञायिनि च ॥६॥३॥५॥ मनसा इत्येव । मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ॥ आत्मनश्च ।६।३॥६॥ आत्मनस्तृतीयाया अलुक् स्यात् ॥ पूरण इति वक्तव्यम् * ॥ पूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः । जनार्दनस्त्वात्मचतुर्थ एवेति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् ॥ वैयाकरणाख्यायां चतुर्थ्याः ।६।३७ ॥ आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषा । तादh चतुर्युषा । चतुर्थीति योगविभागात्समासः । परस्य च ।६।३८॥ परस्मैपदम् । परस्मैभाषा । हलदन्तात्सप्तम्याः संज्ञायाम् ।६ ॥३९॥ हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ॥ गवियुधिभ्यां स्थिरः ८९५॥ आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक् । युधिष्ठिरः । अरण्येतिलकाः । अत्र संज्ञायामिति सप्तमीसमासः ॥ हृद्युभ्यां च * ॥ हृदिस्पृक् । दिविस्पृक् ॥ कारनानि च प्राचां हलादौ ।६।३।१०॥ प्राचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव प्राचामेव हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देयस्य नाम । प्राचां किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात्किम् । नद्यां दोहो नदीदोहः ॥ मध्याद्गुरौ ।६।३।११ ॥ मध्येगुरुः । अन्ताच्च * ॥ अन्तेगुरुः ॥ अमूर्धमस्तकात्स्वाङ्गादकामे ।६।३।१२ ॥ कण्ठेकालः । उरसिलोमा। अमूर्धमस्तकात्किम् । मूर्धशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः ॥ बन्धे च विभाषा।६।३।१३॥ हलदन्तात्सप्तम्या अलुक् । हस्तेबन्धः । हस्तबन्धः । हलदन्तेति किम् । गुप्तिबन्धः ॥ तत्पुरुषे कृति बहुलम् ।६३।१४॥ स्तम्बेरमः स्तंबरमः । कर्णेजपः कर्णजपः। क्वचिन्न । कुरुचरः॥ प्रावृट्शरत्कालदिवां जे।६।३॥१५॥ प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ॥ विभाषा वर्षक्षरशरवरात् ।६।३।१६॥ एभ्यः सप्तम्या अलुक् जे । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । शरेजः । शरजः । वरेजः । वरजः ॥ घकालतनेषु कालनाम्नः ।।३।१७॥ सप्तम्या विभषाऽलुक् स्यात् । घे, पूर्वाहेतरे पूर्वालतरे । पूर्वाह्नेतमे । पूर्वालतमे। काले, पूर्वाह्नेकाले । पूर्वाहणकाले। तने, पूर्वाह्नेतने । पूर्वाह्नतने ॥ शयवासवासिष्वकालात् ।६।३।१८॥ खेशयः। खशयः । ग्रामेवासः । ग्रामवासः । ग्रामवासी । ग्रामवासी ॥ हलदन्तादित्येव । भूमिशयः ॥ अपो योनियन्मतुषु * ॥ अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावाज्यभागौ ॥ नेन्सिद्धबध्नातिषु च ।६।३।१९ ॥ इन्नन्तादिषु सप्तम्या अलुम । स्थण्डिलशायी । साङ्काश्यसिद्धः । चक्रबद्धः ॥ स्थे च भाषायाम् ।
१ आत्मनश्च पूरणे इति विशिष्टं सूत्रं काशिकापाठे ॥