________________
अलुक्समासः। अहनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान् पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । व्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः। शुनः समीपं उपशुनम् । टिलोपाभावः संप्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः ॥ ब्रह्महस्तिभ्यां वर्चसः ।५।४।७८ ॥ अच् स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् ॥ पल्यराजभ्यां चेति वक्तव्यम् * ॥ पल्यवर्चसम् । राजवर्चसम् ॥ अवसमन्धेभ्यस्तमसः ।५।४७९ ॥ अवतमसम् । संतमसम् । अन्धयतीत्यन्धं पचाद्यच् । अंधतमः अन्धतमसम् ॥ श्वसोवसीयःश्रेयसः ।।४।८०॥ वसुशब्दः प्रशस्तवाची तत ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीविषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वःश्रेयसं ते भूयात् ॥ अन्ववतप्ताद्रहसः ।।४८१॥ अनुरहसम् । अवरहसम् । तप्तरहसम् ॥ प्रतेरुरसः सप्तमीस्थात् ।।४।८२॥ उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः ॥ अनुगवमायामे ।।४।८३ ॥ एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । यस्य चायाम इति समासः ॥ द्विस्तावा त्रिस्तावा वेदिः ।।४।८४ ॥ अच्प्रत्ययष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वाऽश्वमेधादौ तत्रेदं निपातनम् । वेदिरिति किम् । द्विस्तावती त्रिस्तावती रज्जुः ॥ उपसर्गादध्वनः ।५।४। ८५॥ प्रगतोऽध्वानं प्राध्वो रथः ॥ न पूजनात् ।।४।६९ ॥ पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा ॥ खतिभ्यामेव * ॥ नेह । परमराजः । पूजनात्किम् । गामतिक्रान्तोऽतिगवः । बहुव्रीहौ सक्थ्यक्ष्णोरित्यतः प्रागेवायं निषेधः । नेह । सुसक्थः । वक्षः ॥ किमः क्षेपे ।।४।७०॥ क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः। कुत्सितो राजा किंराजा । किंसखा । किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः ॥ नमस्तत्पुरुषात् ।।४।७१ ॥ समासान्तो न । अराजा । असखा । तत्पुरुषात्किम् । अधुरं शकटम् ॥ पथो विभाषा ।।४।७२ ॥ नञ्पूर्वात्पथो वा समासान्तः । अपथम् । अपन्थाः । तत्पुरुषादित्येव । अपथो देशः । अपथं वर्तते ॥ ॥ इति समासान्ताः ॥
अलुगुत्तरपदे ।६।३।१॥ अलुगधिकारः प्रागानङः उत्तरपदाधिकारस्त्वापादसमाप्तेः ।। पञ्चम्याः स्तोकादिभ्यः।६।३।२॥ एभ्यः पञ्चम्या अलुक् स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तरपदे किम् । निष्क्रान्तः स्तोकान्निस्तोकः ॥ ब्राह्मणाच्छंसिन उपसंख्यानम् * ॥ ब्राह्मणे विहितानि शस्त्राणि उपचाराद् ब्राह्मणानि तानि शंसतीति ब्राह्मणाच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥ ओजःसहोऽम्भस्तमसस्तृतीयायाः॥६॥३॥३॥ ओजसाकृतमित्यादि ॥ अञ्जस उपसंख्यानम् * ॥ अञ्जसा
HTHHHHHHHHH
१ स्तोकान्तिकदूरार्थकृच्छ्राणीति सूत्रपठिता एव स्तोकादयः ॥
१२