________________
८८
सिद्धान्तकौमुद्याम् इत्यपि प्राचां प्रवादः प्रायोऽभिप्रायः । सूपप्रति उन्मत्तगङ्गमित्याद्यव्ययीभावे अतिमालादौ तत्पुरुषे द्वित्रा इत्यादिबहुव्रीहौ दन्तोष्ठमित्यादिद्वन्द्वे चाभावात् । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेव । तत्पुरुषस्य क्वचिदेवेत्युक्तम् । किंच ॥ सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा । सुबन्तेनेति विज्ञेयः समासः षड्डिधो बुधैः ॥१॥ सुपां सुपा, राजपुरुषः । तिङा, पर्यभूषयत् । नाम्ना, कुम्भकारः । धातुना, कटप्रूः । अजस्रम् । तिङ तिअ, पिबतखादता । खादतमोदता । तिङां सुपा, कृन्तविचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा । एहीडादयोऽन्यपदार्थे इति मयूरव्यंसकादौ पाठात्समासः ॥
॥ इति सर्वसमासशेषः॥ ४. ऋक्पूरब्धूःपथामानक्षे ।५।४।७४ ॥ अ अनक्षे इति छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात् । अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः ॥ अनृचबढचावध्येतर्येव ॥ नेह अनुक्साम । बढक् सूक्तम् । विष्णोः पूः विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ॥ यन्तरुपसर्गेभ्योऽप ईत् ।।३।९७॥ अप इति कृतसमासान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह । स्वप् । खपी ॥ अवर्णान्ताद्वा * ॥ प्रेपम् । परेपम् । प्रापम् । परापम् ॥ ऊदनोर्देशे ।६।३।९८॥ अनोः परस्यापस्य ऊत्स्यादेशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः। दृढधूरक्षः । सखिपथः । रम्यपथो देशः ॥ अच् प्रत्यन्ववपूर्वात्सामलोग्नः ।।४।७२ ॥ एतत्पूर्वात्सामलोमान्तात्समासादच् स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते * ॥ कृष्णभूमः । उदग्भूमः । पाण्डुभूमः । द्विभूमः प्रासादः ॥ संख्याया नदीगोदावरीभ्यां च * ॥ पञ्चनदम् । सप्तगोदावरम् । अजिति योगविभागादन्यत्रापि । पद्मनाभः ॥ अक्षणोऽदर्शनात् ।।४।७६ ॥ अचक्षुःपर्यायादक्ष्णोऽच् स्यात्समासान्तः । गवामक्षीव गवाक्षः ॥ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्सामवाङ्मनसाक्षिश्रु वदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषयायुषत्र्यायुषय॑जुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ॥४॥ ७७ ॥ एते पञ्चाविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वार्यस्य अचतुरः । विचतुरः । सुचतुरः ॥ त्र्युपाभ्यां चतुरोऽजिप्यते * ॥ त्रिचतुराः । चतुर्णा समीपे ये सन्ति ते उपचतुराः । तत एकादश द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिध्रुवम् । दाराश्च गावश्च दारगवम् । ऊरूच अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाहिलोपः । पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते ।