________________
सर्वसमासशेषः । यूना सहोक्तौ गोत्रं शिष्यते गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गाय॑श्च गाायणश्च गाग्र्यो । वृद्धः किम् । गर्गगाायणौ । यूना किम् । गर्गगाग्र्यो । तल्लक्षणः किम् । भागवित्तिभागवित्तिकौ । कृत्स्नं किम् । गार्ग्यवात्स्यायनौ ॥ स्त्री पुंवच्च ।१२६६॥ यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गाायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने योश्चेति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥ पुमान् स्त्रिया ।।२। ६७ ॥ स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ ॥ भ्रातृपुत्री स्वसृदुहितृभ्याम् ।।२।६८ ॥ भ्राता च खसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥ नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम् ।।२।६९ ॥ अक्लीबेन सहोक्तौ क्लीबं शिष्यते तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि ॥ पिता मात्रा ।१।२।७० ॥ मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥ श्वशुरः श्वश्वा । १।२।७१ ॥ श्वश्र्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वशुरश्च श्वशुरौ । श्वश्रूश्वशुरौ ॥ त्यदादीनि सर्वैर्नित्यम् ।२।७२॥ सर्वैः सहोक्तौ त्यदादीनि नित्यं शिप्यन्ते । स च देवदत्तश्च तौ ॥ त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिप्यते * ॥ स च यश्च यौ ॥ पूर्वशेषोऽपि दृश्यते इति भाष्यम् ॥ स च यश्च तौ ॥ त्यदादितः शेषे नपुंसकतो लिङ्गवचनानि * || सा च देवदत्तश्च तौ ॥ तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते ॥ अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम् * ॥ कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते ॥ ग्राम्यपशुसङ्केष्वतरुणेषु स्त्री ।।२।७३ ॥ एषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रियेत्यस्यापवादः । गाव इमाः । ग्राम्येति किम् । रुरव इमे । पशुग्रहणं किम् । ब्राह्मणाः । सङ्घषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे ॥ अनेकशफेष्विति वाच्यम् * ॥ अश्वा इमे । इह सर्वत्र एकशेषे कृतेऽनेकसुबन्ताभावाद्वन्द्वो न । तेन शिरसी शिरांसीत्यादौ समासस्येत्यन्तोदात्तः, प्राण्यङ्गत्वादेकवद्भावश्च न । पन्थानौ पन्थान इत्यादौ समासान्तो न ॥ इत्येकशेषः ॥
कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । परार्थाभिधानं वृत्तिः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विविधः । लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुलौकिकः । प्रयोगानों साधुरलौकिकः । यथा । राज्ञः पुरुषः । राजन् अस् पुरुष सु इति । अविग्रहो नित्यसमासः अखपदविग्रहो वा । समासश्चतुर्विध इति तु प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहिर्भूतानामपि सहसुपेति समासविधानात् । पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । उभयपदार्थप्रधानो द्वन्द्वः ।
१ यदादिः सर्वाद्यन्तर्गणः ॥