________________
सिद्धान्तकौमुद्याम् समाहारद्वन्द्वो भवत्येव ॥ न दधिपयआदीनि ।।४॥१४॥ एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनादीर्घः । ऋक्सामे । वाङ्मनसे ॥ अधिकरणैतावत्त्वे च ।।४।१५॥ द्रव्यसंख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः ॥ विभाषा समीपे ।।४।१६ ॥ अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदशं दन्तोष्ठम् । उपदशाः दन्तोष्ठाः ॥ आनङ् ऋतो द्वन्द्वे ॥६॥३॥२५॥ विद्यायोनिसंबन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । पुत्रेऽन्यतरस्यामित्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तेः पितापुत्रौ ॥ देवताद्वन्द्वे च ।६।३।२६॥ इहोत्तरपदे परे आनङ् । मित्रावरुणौ ॥ वायुशब्दप्रयोगे प्रतिषेधः * ॥ अमिवायू । वाय्वनी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं नापि लोके प्रसिद्धं साहचर्यम् ॥ ईदग्नेःसोमवरुणयोः।६।३।२७ ॥ देवताद्वन्द्वे इत्येव ॥ अग्नेः स्तुत्स्तोमसोमाः। ८.३३८२ ॥ अग्नेः परेषामेषां सस्य षः स्यात्समासे । अमिष्टुत् । अमिष्टोमः । अमीषोमौ । अग्नीवरुणौ ॥ इद्द्धौ ।।३।२८ ॥ वृद्धिमत्युत्तरपदे अमेरिदादेशः स्याद्देवताद्वन्द्वे । अमामरुतौ देवते अस्य आमिमारुतं कर्म । अमीवरुणो देवते अस्य आमिवारुणम् । देवताद्वन्द्वे चेत्युभयपदवृद्धिः । अलौकिके वाक्ये आनङमीत्त्वं च बाधित्वा इत् । वृद्धौ किम् । आमेन्द्रः । नेन्द्रस्य परस्येत्युत्तरपदवृद्धिप्रतिषेधः ॥ विष्णौ न * ॥ आमावैष्णवम् ॥ दिवो द्यावा ।। ३।२९ ॥ देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामे ॥ दिवसश्च पृथिव्याम् ।६। ३३०॥ दिव इत्येव । चाद् द्यावा । आदेशे अकारोच्चारणं सकारस्य रुत्वं मा भूदित्येतदर्थम् । द्योश्च पृथिवी च दिवस्पृथिव्यौ । द्यावापृथिव्यौ ॥ छन्दसि दृष्टानुविधिः ॥ धावा चिदस्मै पृथिवी । दिवस्पृथिव्योररतिरित्यत्र पदकारा विसर्ग पठन्ति ॥ उषासोषसः।६।३।३१ ॥ उषसूशब्दस्योषासादेशो देवताद्वन्द्वे । उषासासूर्यम् ॥ मातरपितरावुदीचाम् ।।३।३२॥ मातरपितरौ । उदीचां किम् । मातापितरौ ॥ द्वन्द्वान्दषहान्तात्समाहारे ।।४।१०६॥ चवर्गान्ताद्दषहान्ताच द्वन्द्वाट्टच् स्यात्समाहारे ॥ वाक् च त्वक् च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् । प्रावृट्शरदौ ॥
॥ इति द्वन्द्वः॥ सरूपाणाम् ॥ रामौ । रामाः ॥ विरूपाणामपि समानार्थानाम् * ॥ वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिलदण्डौ ॥ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ।।२।६५॥
१ दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, परिव्राजककौशिकी, प्रवर्योपसदौ, शुक्लकृष्गौ, इध्माबर्हिषी, दीक्षातपसी, अध्ययनतपसी, उलूखलमुसले, आद्यवसाने, श्रद्धामेधे, ऋक्सामे, वाङ्मनसे । इति दधिपयआदयः॥