________________
द्वन्द्वः ।
८५
1
रूपरसौ । गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदराम - कानि ॥ विशिष्टलिङ्गो नदीदेशोऽग्रामाः | २|४|७ || ग्रामवज्र्ज्य नदीदेश वाचिमां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्ध्यश्च इरावती च उच्येरावती । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्गानां किम् । गङ्गायमुने । मद्रकेकयाः । अग्रामाः किम् । जाम्बवं नगरम् । शालूकिनी ग्रामः । जाम्बवशालु किन्यौ || क्षुद्रजन्तवः | २|४|८ ॥ एषां समाहारे एव द्वन्द्व एकवत्स्यात् । यूकालिक्षम् । आनकुलात्क्षुद्रजन्तवः ॥ येषां च विरोधः शाश्वतिकः | २|४/९ ॥ एषां प्राग्वत् । अहिनकुलम् ॥ गोव्याघ्रम् । काकोलूकमित्यादौ परत्वाद्विभाषा वृक्षमृगेति प्राप्तं चकारेण बाध्यते ॥ शूद्रानामनिरवसितानाम् | २|४|१० || अबहिष्कृतानां शूद्राणां प्राग्वत् । तक्षायस्कारम् । पात्राद्बहिष्कृतानां तु चण्डालमृतपाः ॥ गवाश्वप्रभृतीनि च । २|४|११ ॥ यथेोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि ॥ विभाषावृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडव पूर्वापराधरोत्तराणाम् | २|४|१२ ॥ वृक्षादीनां सप्तानां द्वन्द्वः अध वडवेत्यादि द्वन्द्वत्रयं च प्रागद्वा । वृक्षादौ विशेषाणामेव ग्रहणम् । प्लक्षन्यग्रोधम् । लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । शुकबकम् । शुकबकाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे || फल सेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् * ॥ बदराणि चामलकानि च बदरामलकम् । जातिर - प्राणिनामित्येकवद्भावः । नेह बदरामलके । रथिकाश्वारोहौ । लक्षन्यग्रोधौ इत्यादि । विभाषा - वृक्षेति सूत्रे येऽप्राणिनस्तेषां ग्रहणं जातिरप्राणिनामिति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते । मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः । अन्यैस्तु सहेतरेतरयोग एवेति नियमार्थं मृगशकुनिग्रहणम् । एवं पूर्वापरमधरोत्तरमित्यपि । अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात्पूर्ववदश्ववडवाविति स्यात् ॥ विप्रतिषिद्धं चानधिकरणवाचि | २|४|१३ ॥ विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम् शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वचार्थेद्वन्द्व इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति तर्हि अद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरे - तरयोग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धं किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः
१ क्षुद्रजन्तुरनस्थि: स्यादथवा क्षुद्र एव यः । शतं वा प्रसृतौ येषां केचिदानकुलावधि ॥ २. गवाश्वम्, गवाविकम्, गवैडकम्, अजाविकम्, अजैडकम् कुब्जवामनम्, कुब्ज किरातम्, पुत्रपौत्रम्, श्वचण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीपाटीकम्, शाटी प्रच्छदम्, शाटीपट्टीकम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, यकृन्मेदः, मांसशोणितम्, दर्भशरम्, दर्भपूतीकम्, अर्जुन शिरीषम्, अर्जुनपुरुषम्, तृणोलपम्, दासीदासम्, कुटीकुटम्, भागवतीभागवतम् । एते गवाश्वप्रभृतयः ॥