________________
सिद्धान्तकौमुद्याम्
चार्थे द्वन्द्वः । २।२।२९ ॥ अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेलरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्षस्यानेकस्य एकस्मिन्नन्वयः समुच्चयः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः । मिलितानामन्वय इतरेतरयोगः । समूहः समाहारः । तन्त्रेश्वरं गुरुं च भजखेति समुच्चये । भिक्षामट गां चानयेत्यन्वाचये च न समासो ऽसामर्थ्यात् । धवखदिरौ । संज्ञापरिभाषम् । अनेकोक्तेर्होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्गातारः || राजदन्तादिषु परम् | २ | २|३१ ॥ एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजा राजदन्तः ॥ धर्मादिष्वनियमः * ॥ अर्थधर्मौ । धर्मार्थौ । दम्पती । जम्पती । जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । आकृति - गणोऽयम् || द्वन्द्वे धि ।२।२ ३२ ॥ द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ॥ अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे ॥ हरिगुरुहराः । हरिहरगुरवः ॥ अजाद्यदन्तम् ।२।२।३३ ॥ इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः ॥ ध्यन्तादजाद्यदन्तं विप्रतिषेधेन * ॥ इन्द्रामी ॥ अल्पाच्तरम् ।२।२३४ ॥ शिवकेशव ॥ ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण * ॥ हेमन्तशिशिरवसन्ताः । कृत्तिका - रोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ ॥ लध्वक्षरं पूर्वम् * कुशकाशम् || अभ्यर्हितं च * ॥ तापसपर्वतौ ॥ वर्णानामानुपूर्व्येण ॥ ब्राह्मणक्षत्रियविट्शूद्राः ॥ भ्रातुर्ज्यायसः * ॥ युधिष्ठिरार्जुनौ || द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ।२।४।२ ॥ एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् ॥ रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थं प्रकरणम् । प्राण्यङ्गादीनां समाहार एव यथा स्यात् ॥ अनुवादे चरणानाम् | २|४ | ३ || चरणानां द्वन्द्व एकवत्स्यात्सिद्धस्योपन्यासे || स्थेोर्लुङीति वक्तव्यम् * ॥ उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् ॥ अध्वर्युक्रतुरनपुंसकम् | २|४|४ || यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ सामवेदे विहितौ । अनपुंसकं किम् । राजसूयवाजपेये । अर्धी ॥ अध्ययनतोऽविप्रकृष्टाख्यानाम् | २|४|५ || अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ॥ जातिरप्राणिनाम् | २|४|६ ॥ प्राणिवर्ण्यजातिवाचिनां द्वन्द्व एकवत् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः द्रव्यजातीयानामेव । नेह |
८४
१ राजदन्तः, अग्रेवणम्, लिप्तवासितम् नममुषितम्, सिक्तसंमृष्टम्, मृष्टलुञ्चितम् अवक्लिन्नपक्कम्, अर्पितोप्तम्, उप्तगाथम्, उलूखलमुसलम्, तण्डुलकिण्वम्, दृषदुपलम्, आरग्वायनबन्धकी, चित्ररथबाहीकम्, अवन्त्यश्मकम् शूद्रार्यम्, स्नातकराजानौ, विष्वक्सेनार्जुनौ अक्षिभ्रुवम् दारवगम् ॥ धर्मादिषूभयम् ॥ अर्थधर्मी, धर्मार्थी, अर्थशब्द, शब्दार्थों, अर्थकामौ, कामार्थौ, वैकारिमतम्, गोजवाजम्, गोपालधानीपूला • सम्, पूलासककरण्डम्, स्थूलपूलासम्, स्थलपूलासम्, उशीरबीजम् सिञ्जास्थम्, चित्राखाती, भार्यापती, दम्पती, जम्पती, जायापती, पुत्रपती, पुत्रपशु, केशश्मश्रू, शिरोबीजम्, शिरोजानु, सर्पिर्मधुनी, मधुसर्पिषी, आद्यन्तौ, अन्तादी, गुणवृद्धी, वृद्धिगुणौ । आकृतिगणोऽयं राजदन्तादिः ॥