________________
बहुव्रीहिः । प्रियसर्पिष्कः । इह पुमान् , अनड्डान् , पयः, नौः, लक्ष्मीरिति एकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु शेषाद्विभाषेति विकल्पेन कप् । द्विपुमान् । द्विपुंस्कः ॥ अर्थान्नञः * ॥ अनर्थकम् । नञः किम् । अपार्थम् । अपार्थकम् ॥ इनः स्त्रियाम् ।।४।१५२॥ बहुदण्डिका नगरी । अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति ॥ बहुवाग्मिका । स्त्रियां किम् । बहुदण्डी । बहुदण्डिको ग्रामः ॥ शेषाद्विभाषा ।।४।१५४ ॥ अनुक्तसमासान्ताच्छेषाधिकारस्थाबहुव्रीहेः कप् वा स्यात् । महायशस्कः । महायशाः । अनुक्तेत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः ॥ शेषाधिकारस्थात्किम् । उपबहवः । उत्तरपूर्वा । सपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः । आपोऽन्यतरस्याम् ।७४।१५॥ कप्याबन्तस्य हूस्खो वा स्यात् । बहुमालाकः । बहुमालकः । कबभावे बहुमालः ॥ न संज्ञायाम् ।।४।१५५ ॥ शेषादिति प्राप्तः कप् न स्यात्संज्ञायाम् । विश्वे देवा अस्य विश्वदेवः ॥ ईयसश्च ।।४।१५६ ॥ ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । गोस्त्रियोरिति हखे प्राप्ते ॥ ईयसो बहुव्रीहेर्नेति वाच्यम् * ॥ बह्वयः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम् । अतिश्रेयसिः ॥ वन्दिते भ्रातुः।।४।१५७ ॥ पूजितेऽर्थे यो भ्रातृशब्दस्तदन्तान्न कप् स्यात् । प्रशस्तो भ्राता यस्य प्रशस्तभ्राता सुभ्राता । न पूजनादिति निषेधस्तु बहुव्रीही सक्थ्यक्ष्णोरित्यतः प्रागेवेति वक्ष्यते । वन्दिते किम् । मूर्खभ्रातृकः ॥ नाडीतत्र्योः खाने ।।४।१५९ ॥ खाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहुनाडिः कायः । बहुतन्त्रीीवा । तन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाखो न । खाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥ निष्प्रवाणिश्च ।।४।१६० ॥ कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्युट् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः । नव इत्यर्थः ॥ सप्तमीविशेषणे बहुव्रीहौ ।२।२।३२ ॥ सप्तम्यन्तं विशेषणं च बहुव्रीही पूर्व प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकायधिकरणपदो बहुव्रीहिः । चित्रगुः ॥ सर्वनामसंख्ययोरुपसंख्यानम् * ॥ सर्वश्वेतः । द्विशुक्लः ॥ मिथोऽनयोः समासे संख्या पूर्वम् । शब्दपरविप्रतिषेधात् । धन्यः ॥ संख्याया अल्पीयस्याः * ॥ द्वित्राः । द्वन्द्वेऽपि । द्वादश ॥ वा प्रियस्य * ॥ गुडप्रियः । प्रियगुडः ॥ गड्डादेः परा सप्तमी * गडकण्ठः । क्वचिन्न । वहेगडः ॥ निष्ठा ।२।२।३६॥ निष्ठान्तं बहुव्रीही पूर्व स्यात् । कृतकृत्यः ॥ जातिकालसुखादिभ्यः परा निष्ठा वाच्या * ॥ सारङ्गजग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ॥ वाहिताश्यादिषु ।।२॥३७॥ आहितामिः । अग्याहितः । आकृतिगणोऽयम् ॥ प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ * ॥ अस्युद्यतः । दण्डपाणिः ॥ क्वचिन्न । विवृतासिः ॥ इति बहुव्रीहिः॥
१ आहिताग्निः, जातपुत्रः, जातदन्तः, जातश्मश्रुः, तैलपीतः, घृतपीतः, ऊढभार्यः, गतार्थः । आकृतिगणोऽयम् । तेन गडकण्ठ, अस्युद्यत, दण्डपाणि इत्यादि ज्ञेयम् । इत्याहिताझ्यादिः॥