________________
सिद्धान्तकौमुद्याम् जायाया नि ।।४।१३४ ॥ जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ॥ लोपो व्योर्वलि ।।१॥६६॥ वकारयकारयोर्लोपः स्याद्वलि । पुंवद्भावः । युवतिर्जाया यस्य युवजानिः । गन्धस्येदुत्पूतिसुमुरभिभ्यः ।।४।१३५ ॥ एभ्यो गन्धस्य इकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ गन्धस्येत्त्वे तदेकान्तग्रहणम् * ॥ एकान्त एकदेश इव अविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह शोभना गन्धाः द्रव्याण्यस्य सुगन्धः आपणिकः ॥ अल्पाख्यायाम् ।।४। १३६ ॥ सूपस्य गन्धो लेशो यस्मिंस्तत् सूपगन्धि भोजनम् । घृतगन्धि । गन्धो गन्धकआमोदे लेशे संबन्धगर्वयोरिति विश्वः ॥ उपमानाच ।५४११३७ ॥ पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥ पादस्य लोपोऽहस्त्यादिभ्यः ।।४।१३८॥ हस्त्यादिवर्जितादुपमानापरस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव. पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् । हस्तिपादः । कुसूलपादः ॥ कुम्भपदीषु च ।५।४। १३९ ॥ कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् । पादः पत् । कुम्भपदी । स्त्रियां किम् । कुम्भपादः ॥ संख्यासुपूर्वस्य ।।४।१४० ॥ पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥ वयसि दन्तस्य दत् ।।४।१४१ ॥ संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षट् दन्ता अस्य षोडन् । सुदन् । सुदती । वयसि किम् । द्विदन्तः करी । सुदन्तः ॥ स्त्रियां संज्ञायाम् ।।४। १४३ ॥ दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती। फालदती । संज्ञायां किम् । समदन्ती ॥ विभाषा श्यावारोकाभ्याम् ।।४।१४४ ॥ दन्तस्य दतृ वा बहुव्रीहौ । श्यावदन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।५।४।१४५ ॥ एभ्यो दन्तस्य दतृ वा । कुङ्मलाग्रदन् । कुङ्मलाग्रदन्तः ॥ ककुदस्यावस्थायां लोपः ।।४।१४६ ॥ अजातककुत् । पूर्णककुत् ॥ त्रिककुत्पर्वते ।५।४।१४७॥ त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञेषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥ उद्विभ्यां काकुदस्य ।।४।१४८ ॥ लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ॥ पूर्णाद्विभाषा ।५।४।१४९ ॥ पूर्णकाकुत् । पूर्णकाकुदः ॥ सुहृदुहृदौ मित्रामित्रयोः ।।४।१५०॥ सुदुर्ध्या हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहूं. दमित्रः । अन्यत्र सुहृदयः दुहृदयः ॥ उरःप्रभृतिभ्यः कप ।५।४।१५१॥ व्यूढोरस्कः । ___ १ हस्तिन् , कुद्दाल, अश्व, कशिक, कुरुत, कटोल, कटोलक, गण्डोल, गण्डोलक, कण्डोल, कण्डोलक, अज, कपोल, जाल, गण्ड, महेला, दासी, गणिका, कुसूल । इति हस्त्यादिः॥ २ कुम्भपदी, एकपदी, जालपदी, मुनिपदी, शूलपदी, गुणपदी, शतपदी, सूत्रपदी, गोधापदी, कलशीपदी, विपदी, द्विपदी, त्रिपदी, षट्पदी, दासीपदी, तृणपदी, शितपदी, विष्णुपदी, सुपदी, निष्पदी, आर्द्रपदी, कुणिपदी, कृष्णपदी, शुचिपदी, द्रोणीपदी, द्रुपदी, सूकरपदी, शकृत्पदी, अष्टापदी, स्थूणापदी, अपदी, सूचीपदी,। इति कुम्भपद्यादिः ॥ ३ उरस्, सर्पिस् , उपानह , पुमान् , अनवान्, पयः, नौः, लक्ष्मीः , दधि, मधु, शालि, अर्थानमः । इत्युत्तरप्रभृतयः॥