________________
बहुव्रीहिः । पक्षे अजपीप्यते * ॥ खुरणसः । खरणसः ॥ उपसर्गाच ।।४।११९ ॥ प्रादेर्यो नासिकाशब्दस्तदन्ताबहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थ वचनम् । उन्नता नासिका यस्य स उन्नसः । उपसर्गादनोत्पर इति सूत्रं तद्भक्त्वा भाष्यकार आह ॥ उपसर्गाद्वहुलम् ।८।४।२८ ॥ उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम् । प्रणसः ॥ वेर्यो वक्तव्यः * ॥ विगता नासिकाऽस्य विग्रः ॥ ख्यश्च * ॥ विख्यः । कथं तर्हि विनसा हतबान्धवेति भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् ॥ सुप्रातसुश्वसुदिव
शारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः ।।४।१२० ॥ एते बहुव्रीहावच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजपदः । प्रोष्ठो गौः तस्येव पादावस्य प्रोष्ठपदः ॥ नदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ।।४।१२१ ॥ अच् स्यात् । अहलः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् । शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥ नित्यमसिच् प्रजामेधयोः।।४।१२२॥ नन्दुःसुभ्य इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥ धर्मादनिच्केवलात् ।।४।१२४ ॥ केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताबहुव्रीहेरनिच् स्यात् । कल्याणधर्मा । केवलात्किम् । परमः खो धर्मो यस्येति त्रिपदे बहुव्रीहो मा भूत् । खशब्दो हीह न केवलं पूर्वपदं किंतु मध्यमत्वादापेक्षिकम् । संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः । एवं च परमखधर्मेत्यपि साध्वेव । निवृत्तिधर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाक्षिप्यते ॥ जम्भा सुहरिततृणसोमेभ्यः ।।४।१२५ ॥ जम्भेति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा । स्वादिभ्यः किम् । पतितजम्भः ॥ दक्षिणेर्मा लुब्धयोगे । ५।४।१२६ ॥ दक्षिणे ईमैं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥ इच् कर्मव्यतिहारे ।।४।१२७ ॥ कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः । केशाकेशि । मुसलामुसलि ॥ द्विदण्ड्यादिभ्यश्च ।।४।१२८ ॥ तादयं चतुर्युषा । एषां सिद्ध्यर्थमिच् प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति ॥ प्रसंभ्यां जानुनोर्जुः ।।४।१२९ ॥ आभ्यां परयोर्जानुशब्दयो रादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रजुः । संजुः ॥ ऊर्ध्वाद्विभाषा । ५।४।१३० ॥ ऊर्ध्वजुः । ऊर्ध्वजानुः ॥ धनुषश्च ।।४।१३२ ॥ धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । शार्ङ्गधन्वा ॥ वा संज्ञायाम् ।५।४।१३३ ॥ शतधन्वा । शतधनुः ॥
१ द्विदण्डि, द्विमुसलि, उभाञ्जलि, उभयाञ्जलि, उभादन्ति, उभयादन्ति, उभाहस्ति, उभयाहस्ति, उभाकर्णि, उभयाकर्णि, उभापाणि, उभयापाणि, उभाबाहु, उभयाबाहु, एकपदि, प्रोष्ठपदि, आदयपदि, सपदि, निकुञ्चयकर्णि, संहतपुच्छि, अन्तेवासि । इति द्विदड्यादिः॥
११