________________
सिद्धान्तकौमुद्याम् ।२।२।२८ ॥ सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते ॥ अन्येषामपि दृश्यते ।६।३११३७ ॥ दीर्घ इत्यनुवर्तते । इचि कर्मव्यतिहारे बहुव्रीही पूर्वपदान्तस्य दीर्घः । इच् समासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्ययस्य पाठादव्ययीभावत्वमव्ययत्वं च । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैर्दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ॥ ओर्गुणः।६।४।१४६॥ उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । ओरोदिति वक्तव्ये गुणोक्तिः संज्ञापूर्वको विधिरनित्य इति ज्ञापयितुम् । तेन खायम्भुवमित्यादि सिद्धम् । सरूपे इति किम् । हलेन मुसलेन ॥ तेन सहेति तुल्ययोगे ।२।२।२७ ॥ तुल्ययोगे वर्तमानं सहेत्येतत्तृतीयान्तेन प्राग्वत् ॥ वोपसर्जन्यस्य ।६।३।८२ ॥ बहुव्रीयवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः सहपुत्रो वा आगतः । तुल्ययोगवचनं प्रायिकम् । सकर्मकः । सलोमकः ॥ प्रकृत्याशिषि ।६।३।८३ ॥ सहशब्दः प्रकृत्या स्यादाशिषि । खस्ति राज्ञे सहपुत्राय सहामात्याय ॥ अगोवत्सहलेष्विति वाच्यम् * ॥ सगवे । सवत्साय । सहलाय ॥ बहुव्रीहौ संख्येये डजबहुगणात् ।५।४।७३ ॥ संख्येये यो बहुव्रीहिस्तस्माड्डच् स्यात् । उपदशाः अबहुगणात्किम् । उपबहवः । उपगणाः । अत्र खरे विशेषः ॥ संख्यायास्तत्पुरुषस्य वाच्यः * ॥ निर्गतानि त्रिंशतो निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गलिभ्यो निस्त्रिंशः खड्गः॥ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच ।।४।११३ ॥ व्यत्ययेन षष्ठी । खाङ्गवाचिसक्थ्यक्ष्यन्ताबहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी । खाङ्गात्किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादित्यच् ॥ अङ्गलेर्दारुणि ।।४।११४ ॥ अमुल्यन्ताहहुव्रीहेः षच् स्याद्दारुण्यर्थे । पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्ठमुच्यते । बहुव्रीहेः किम् । द्वे अङ्गुली प्रमाणमस्याः घ्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे तत्पुरुषस्याङ्गुलेरित्यच् । दारुणि किम् । पञ्चाङ्गुलिर्हस्तः । द्वित्रिभ्यां ष मूर्ध्नः ।।४।११५ ॥ आभ्यां मूर्ध्नः षः स्याबहुव्रीहौ । द्विमूर्धः । त्रिमूर्घः ॥ नेतुर्नक्षत्रे अब्वक्तव्यः * ॥ मृगो नेता यासां ताः मृगनेत्रा रात्रयः । पुष्पनेत्राः । अन्तर्बहियां च लोम्नः । ५४११७ ॥ आभ्यां लोम्नोऽप्स्याहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः । अञ् नासिकायाः संज्ञायां नसं चास्थूलात् ।।४।११८॥ नासिकान्ताबहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात् ॥ पूर्वपदात्संज्ञायामगः ।।४।३ ॥ पूर्वपदस्थानिमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिकाऽस्य गुणसः । खरणसः । अगः किम् । ऋचामयनं ऋगयनम् । अणूगयनादिभ्य इति निपातनात् णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये । अस्थूलात्किम् । स्थूलनासिकः ॥ खुरखराभ्यां वा नस् * ॥ खुरणाः । खरणाः ।