________________
बहुव्रीहिः ।
७९
1
तृतीया लिङ्गविशिष्टपरिभाषया पत्युत्तरपदलक्षणो ण्य एव । न त्वण् । शिवादी रूढयोरेव ग्रहणात् । सापत्यः ॥ ठक्छसोश्च * ॥ भवत्याश्छात्रा भावत्काः । भवदीयाः । एतद्वार्तिकमेकतद्धिते चेति सूत्रं च न कर्तव्यम् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव इति भाष्यकारेष्ट्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य स सर्वकभार्यः । सर्वकप्रिय इत्यादि । पूर्वस्यैवेदम् । भस्त्रैषाद्वेति लिङ्गात् । तेनाकचि एकशेषवृत्तौ च न । सर्विका । सर्वाः ॥ कुक्कुंट्यादीनामण्डादिषु * ॥ कुक्कुट्या अण्डं कुक्कुटाण्डम् । मृग्याः पदं मृगपदम् मृगक्षीरम् । काकशावः ॥ क्यङ्मानिनोश्च | ३ | ३ | ३६ || एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्नां कांचिद्दर्शनीयां मन्यते दर्शनी - यमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः ॥ न कोपधायाः । ६।३।३७ ॥ कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी ॥ कोपधप्रतिषेधे तद्धितवुग्रहणम् * || नेह । पाका भार्या यस्य स पाकभार्यः ॥ संज्ञापूरयो | ६| ३ | ३८ || अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति । भाषितपुंस्कत्वमस्ति । पञ्चमीभार्यः । पञ्चमीपाशा ॥ वृद्धि - निमित्तस्य च तद्वितस्यारक्तविकारे | ६|३ | ३९ ॥ वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत् । सौनीभार्यः । माथुरीयते । माथुरीमानिनी । वृद्धिनिमित्तस्य किम् । मध्यमभार्यः । तद्धितस्य किम् । काण्डलावभार्यः । वृद्धिशब्देन किम् । तावद्भार्यः । रक्ते तु काषायी कन्था यस्य स काषायकन्थः । विकारे तु हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत् । वैयाकरणभार्यः । सौवश्वभार्यः ॥ स्वाङ्गाच्चेतः | ३ | ३ |४० ॥ खानाद्य ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । खाङ्गात्किम् । पटुभार्यः । ईतः किम् । अकेशभार्यः ॥ अमानिनीति वक्तव्यम् * ॥ सुकेशमानिनी ॥ जातेश्व | ३ | ३ | ४१ ॥ जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढ इति तु भवत्येव । संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्ये ये ।२।२।२५ ॥ संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः । दशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । बहुव्रीहौ संख्येये इति वक्ष्यमाणो डच् । ति विंशतेर्डिति | ६|४|१४२ ॥ विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः द्वौ वा त्रयो वा द्वित्राः । द्विरावृत्ता दश द्विदशाः । विंशतिरित्यर्थः ॥ दिङ्नामान्यन्तराले | २।२।२६ ॥ दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्याश्च कौबेर्याश्चान्तरालं दिक् ॥ तत्र तेनेदमिति सरूपे
१ कुक्कुटी, मृगी, काकी, । अण्ड, पद, शाव, भ्रकुं, भ्रुकुटीस, इति कुक्कुट्यादिरण्डादिश्च ॥