________________
७८
सिद्धान्तकौमुद्यम्
उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् । पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्ति । वस्तुतस्तु नेह पूर्वपदमाक्षिप्यते । आन ऋत इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव । चित्राजरगुरित्यादि । अत एव चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरगुरिति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् | जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः । स्त्रियाः किम् । ग्रामणिकुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात्किम् । गङ्गाभार्यः । अनूङ् किम् । वामोरुभार्यः । समानाधिकरणे किम् । कल्याण्याः माता कल्याणीमाता । स्त्रियां किम् । कल्याणी प्रधानं यस्य स कल्याणीप्रधानः । पूरण्यां तु ॥ अप्पूरणीप्रमाण्योः | ५|४|११६ ॥ पूरणार्थप्रत्ययान्तं यत् स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्रीप्रमाणी यस्य स स्त्रीप्रमाणः । पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव । रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु ॥ नद्युतश्च |५|४|१५३ ॥ नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः कप्स्यात् । पुंवद्भावः || केऽणः | ७|४| १३ || के परेऽणो ह्रखः स्यात् । इति प्राप्ते ॥ न कपि |७|४|१४ ॥ कपि परे अणो हखो न स्यात् । कल्याणपञ्चमीकः पक्षः । अत्र तिरोहितावयव - भेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । खसा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । अबला । तनया || सामान्ये नपुंकसम् ॥ दृढं भक्तिर्यस्य स हृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढभक्तिः ॥ तसिलादिष्वाकृत्वसुचः । ६।३।३५ ॥ तसिलादिषु कृत्वसुजन्तेषु परेषु स्त्रियां पुंवत्स्यात् । परिगणनं कर्तव्यम् । अव्यास्यतिव्याप्तिपरिहाराय । त्रतसौ । तरप्तमपौ । चरड्जातीयरौ । कल्पब्देशीयरौ । रूपप्पाशपौ । थाल् । तिल्थ्यनौ । बह्वीषु बहुत्र । बहुतः । दर्शनीयतरा । दर्शनीयतमा । रूपेति वक्ष्यमाणो ह्रखः परत्वात्पुंवद्भावं बाधते । पट्टितरा । पट्टितमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । दर्शनीयरूपा । दर्शनीयपाशा । बहुधा । प्रशस्ता वृक वृतिः । अजाभ्यो हिता अजथ्या ॥ शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः * ॥ बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः ॥ त्वतलोर्गुणवचनस्य || शुक्लाया भावः शुक्लत्वम् । शुक्लता । गुणवचनस्य किम् । कर्ध्या भावः कर्त्रीत्वम् । शरदः कृतार्थतेत्यादौ तु सामान्ये नपुंसकम् ॥ भस्याढे तद्धिते ॥ हस्तिनीनां समूहो हास्तिकम् । अढे किम् । रौहिणेयः । स्त्रीभ्यो ढगति ढोऽत्र गृह्यते । अग्नेर्टगिति ढकि तु पुंवदेव | अमायी देवताऽस्य स्थालीपाकस्याग्नेयः । सपत्नीशब्दस्त्रिधा । शत्रुपर्यायात्सपल शब्दाच्छार्ङ्गरवादित्वात् ङीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिङ्गो द्वितीयः । खामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आद्ययोः शिवाद्यण् । सपत्नया अपत्यं सापत्नः ।
1