________________
७७
बहुव्रीहिः । वीरणकन्था । उशीनरेषु किम् । दाक्षिकन्था ॥ उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ।।४।२१ ॥ उपज्ञान्त उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् तयोरुपज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः ॥ छाया बाहुल्ये ।।४।२२॥ छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इथूणां छाया इक्षुच्छायम् । विभाषा सेनेति विकल्पस्यायमपवादः । इक्षुच्छायानिषादिन्य इति तु आसमन्तान्निषादिन्य इत्याप्रश्लेषो बोध्यः ॥ सभा राजाऽ. मनुष्यपूर्वा ।।४।२३ ॥ राजपर्यायपूर्वोऽमनुष्यपूर्वश्व सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् ॥ पर्यायस्यैवेष्यते * ॥ नेह । राजसभा । चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाह । रक्षःसभम् । पिशाचसभम् ॥ अशाला च ।।४।२४॥ संघातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः । अशाला किम् । धर्मसभा । धर्मशालेत्यर्थः ॥ विभाषा सेनासुराच्छायाशालानिशानाम् ।।४।२५ ॥ एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम् । ब्राह्मणसेना । यवसुरम् । यवसुरा । कुड्यच्छायम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा । तत्पुरुषोऽनकर्मधारय इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना ॥
॥ इति तत्पुरुषः॥ शेषो बहुव्रीहिः ।।२।२३ ॥ अधिकारोऽयम् । द्वितीयाश्रितेत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः सः शेषः प्रथमान्तमित्यर्थः ॥ अनेकमन्यपदार्थे ।२।२।२४ ॥ अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढरथोऽनडान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको प्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्भुक्तमस्य ॥ प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः * ॥ प्रपतितपर्णः प्रपर्णः ॥ नमोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः * ॥ अविद्यमानपुत्रः अपुत्रः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ॥ स्त्रियाः पुंवद्भाषितपुंस्कादनू समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ।६।३३३४ ॥ भाषितपुंस्कादनृङ् ऊङोऽभावो यस्यामिति बहुव्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ट्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोरिति हवः । चित्रा गावो यस्येति लौकिकविग्रहे चित्रा अस् गो अस् इत्यलोककविग्रहे चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् । चित्राजरतीगुः। जरतीचित्रागुर्वा । एवं दीर्घातन्वीजङ्घः । तन्वीदीर्घाजङ्घः । त्रिपदे बहुव्रीहौ प्रथमं न पुंवत् ।