________________
७६
सिद्धान्तकौमुद्याम्
च | २|४|३१ ॥ अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्धर्चम् । ध्वजः । ध्वजम् । एवं तीर्थ, शरीर, मण्ड, पीयूष, देह, अङ्कुश, कलश इत्यादि ॥ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् | १|२२५८ ॥ एकोऽप्यर्थो वा बहुत्ववद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः ॥ अस्मदो द्वयोश्च । १२५९ ॥ एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षेऽहं ब्रवीमि । आवां ब्रूव इति वा ॥ सविशेषणस्य प्रतिषेधः * ॥ पटुरहं ब्रवीमि ॥ फल्गुनीप्रोष्ठपदानां च नक्षत्रे |१| २।६० ॥ द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः । नक्षत्रे किम् | फल्गुन्यौ माणविके ॥ तिष्यपुनर्वखोर्नक्षत्रन्द्रे बहुवचनस्य द्विवचनं नित्यम् | १|२/६३ ॥ बहुत्वं द्वित्ववद्भवति । यश्च पुनर्वसू च तिष्यपुनर्वसू । तिष्येति किम् । विशाखानुराधाः । नक्षत्रे किम् । तिष्यपुन - र्वसवो माणवकाः ॥ स नपुंसकम् | २|४|१७ ॥ समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् । परवल्लिङ्गापवादः । पञ्चगवम् । दन्तोष्ठम् । अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः * ॥ पञ्चमूली || आवन्तो वा * ॥ पञ्चखट्टी | पञ्चखटुम् || अनो नलोपश्च वा द्विगुः स्त्रियाम् * ॥ पञ्चतक्षी । पञ्चतक्षम् || पात्राद्यन्तस्य न * ॥ पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् ॥ पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा * || पुण्याहम् । सुदिनाहम् | पथः संख्याव्ययादेः * || संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्थाः विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः । अतिपन्थाः । सामान्ये नपुंसकम् * ॥ मृदु पचति । प्रातः कमनीयम् ॥ तत्पुरुषोऽनञ्कर्मधारयः | २|४|१९ ॥ अधिकारोऽयम् ॥ संज्ञायां कन्थोशीनरेषु |२|४| २० || कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः तेषां कन्था सौशमिकन्थम् । संज्ञायां किम् ।
घृत, सैन्धव, औषध, आढक, चषक, द्रोण, खलीन, पात्रीव, षष्ठीक, वार, बाण, प्रोथ, कपित्थ, शुष्क, शाल, शील, शुक्ल, शीधु, कवच, रेणु, ऋण, कपट, शीकर, मुसल, सुवर्ण, वर्ण, पूर्ण, चमस, क्षीर, कर्ष, आकाश, अष्टापद, मङ्गल, निधान, निर्यास, जृम्भ, वृत्त, पुस्त, बुस्त, क्ष्वेडित, शृङ्ग, निगड, खल, मधु, मूल, मूलक, स्थूल, शराव, नाल, वप्र, विमान, मुख, प्रग्रीव, शूल, वज्र, कटक, कण्टक, कर्पट, शिखर, कल्क, नाट, मस्तक, वलय, कुसुम, तृण, पक्ङ्क, कुण्डल, किरीट, कुमुद, अर्बुद, अङ्कुश, तिमिर, आश्रम, भूषण, इल्कस, मुकुल, वसन्त, तडाग, पिटक, विटङ्क, विडङ्ग, पिण्याक, माष, कोश, फलक, दिन, दैवत, पिनाक, समर, स्थाणु, अनीक, उपवास, शाक, कर्पास, विशाल, चषाल, खण्ड, दर, विटप, रण, बल, मृणाल, हस्त, आई, हल, सूत्र, ताण्डव, गाण्डीव, मण्डप, पटह, सौध, योध, पार्श्व, शरीर, देह, फल, छल, पुर, राष्ट्र, बिम्ब, अम्बर, कुट्टिम, मण्डल, कुकुट, कुडप, ककुद, खण्डल, तोमर, तोरण, मञ्चक, पञ्चक, पुङ्ख, मध्य, बाल, छाल, वल्मीक, वर्ष, वस्त्र, वसु, उद्यान, उद्योग, स्नेह, स्तन, स्तेन, स्वर, संगम, निष्क, क्षेम, शुक, छत्र, क्षत्र, पवित्र, यौवन, कलह, पालक, वल्कल, कुञ्ज, विहार, लोहित, विषाण, भवन, अरण्य, पुलिन, हल, दृढ, आसन, ऐरावत, शूर्प, तीर्थ, लोमश, तमाल, लोह, दण्डक, शपथ, प्रतिसर, दारु, धनुस्, मान, वर्चस्क, कूर्च, तण्डक, मठ, सहस्र, ओदन, प्रवाल, शकट, अपराह्न, नीड, शकल, तण्डुल, मुस्तक, इत्यर्धर्चादिः ॥