________________
तत्पुरुषः। नाधिकरणग्रहणसामर्थ्यात् । आदिति योगविभागादात्वम् प्रागेकादशभ्य इति निर्देशाद्वा । एकादश । महतीशब्दस्य पुंवत्कर्मधारयेति पुंवद्भावे कृते आत्वम् । महाजातीया ॥ महदात्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्भावश्च * ॥ असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः ॥ अष्टनः कपाले हविषि * ॥ अष्टाकपालः । गवि च युक्ते * ॥ गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्वं वक्तव्यमित्यर्थः ॥ अष्टागवं शकटम् । अप्रत्यन्ववेत्यत्राजिति योगविभागाबहुव्रीहावप्यच् । अष्टानां गवां समाहारः अष्टगवम् । तद्युक्तत्वाच्छकटमष्टागवमिति वा ॥ यष्टनः संख्यायामबहुव्रीह्यशीत्योः४७॥ आत्स्यात् । द्वौ च दश च द्वादश । व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । व्यशीतिः ॥ प्राक्शतादिति वक्तव्यम् * ॥ नेह द्विशतम् । द्विसहस्रम् ॥ त्रेस्त्रयः ।।३।४८॥ त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु व्यशीतिः । प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्रम् ॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ।।३।४९ ॥ यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ॥ एकादिश्चैकस्य चादुक् ।। ३७६॥ एकादिर्नञ् प्रकृत्या स्यादेकस्य च अदुगागमश्च । नञो विंशत्या सह समासे कृते एकशब्देन सह तृतीयेति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन न विंशतिः एकान्नविंशतिः । एकागविंशतिः । एकोनविंशतिरित्यर्थः ॥ षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम् ॥ षोडन् । षोडश । षोढा । षड्धा ॥ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।।४।२६॥ एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली ॥ द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः * ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः। आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । अत एव ज्ञापकात्समासः। निष्कौशाम्बिः ॥ पूर्ववदश्ववडवौ ।।४॥२७॥ द्विवचनमतन्त्रम् । अश्ववडवौ । अश्ववडवान् । अश्ववडवैः ॥रात्राहाहाः पुंसि ।।४।२९॥ एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः । पूर्वालः । व्यहः ॥ संख्यापूर्व रात्रं क्लीबम् ॥ द्विरात्रम् । त्रिरात्रम् । गणरात्रम् ॥ अपथं नपुंसकम् ।।४।३०॥ तत्पुरुष इत्येव । अन्यत्र तु अपथो देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः ॥ अर्धाः पुंसि
१ अर्धर्च, गोमय, कषाय, कार्षापण, कुतप, कुणप, कपाट, शङ्ख, गूथ, यूथ, ध्वज, कबन्ध, पद्म, गृह, सरक, कंस, दिवस, यूष, अन्धकार, दण्ड, कमण्डलु, मण्ड, भूत, द्वीप, द्यूत, चक्र, धर्म, कर्म, मोदक, शतमान, यान, नख, नखर, चरण, पुच्छ, दाडिम, हिम, रजत, सक्तु, पिधान, सार, पात्र,