________________
७४
सिद्धान्तकौमुद्यम्
एवं चैतदर्थमह्न इत्यदन्तानुकरणक्लेशो न कर्तव्यः । प्रातिपदिकान्तेति णत्ववारणाय क्षुम्ना - दिषु पाठस्यावश्यकत्वात् । अदन्तादिति तपरकरणान्नेह । परागतमहः पराद्धः ॥ न संख्यादेः समाहारे |५|४|८९ ।। समाहारे वर्तमानस्य संख्यादेरह्रादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम् । द्वयोरहो ः समाहारो व्यहः । त्र्यहः ॥ उत्तमैकाभ्यां च |५|४९० ॥ आभ्यामह्लादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । पुण्यै काभ्यामित्येव सूत्रयितुमुचितम् । पुण्याहम् । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥ अग्राख्यायामुरसः | ५|४|९३ । टच् स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥ अनोश्मायःसरसां जातिसंज्ञयोः | ५|४|९४ || टच्स्याज्जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसमिति संज्ञा ॥ ग्रामकौटाभ्यां च तणः |५|४| ९५ ॥ ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः खतन्त्रः स चासौ तक्षा च कौटतक्षः ॥ अतेः शुनः | ५|४|९६ ॥ अतिश्वो वराहः । अतिश्वी सेवा || उपमानादप्राणिषु |५|४|९७ ॥ अप्राणिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेव आकर्षश्वः । अप्राणिषु किम् । वानरः श्वेव वानरश्वा || उत्तरमृगपूर्वाच्च सक्तः । ६/४/९८ ॥ चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ॥ नावो द्विगोः । ५/४/९९ ॥ नौशब्दान्ताद्विगोष्टच् स्यान्न तु तद्धितलुकि ।
नौभ्यामागतः द्विनावरूप्यः । द्विगोर्लुगनपत्य इत्यत्र अचीत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पञ्चभिर्नोभिः क्रीतः पञ्चनौः ॥ अर्धाच |५|४|१०० ॥ अर्धान्नावष्टच् स्यात् । नावोऽर्धम् | अर्धनावम् । क्लीबत्वं लोकात् ॥ खार्याः प्राचाम् ||५|४|१०१ ॥ द्विगोरर्धाच खार्याष्टज्वा स्यात् । द्विखारम् । द्विखारि । अर्धखारम् । अर्धखारि । द्वित्रिभ्यामञ्जलेः | ५|४|१०२ ॥ ज्वा स्यात् । द्विगौ । व्यञ्जलम् । द्यञ्जलि | अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो व्यञ्जलिः ॥ ब्रह्मणो जानपदाख्यायाम् |५|४|१०४ ॥ ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्या यते चेत् । सुराष्ट्रेब्रह्मा सुराष्ट्र ब्रह्मः ॥ कुमहद्भ्यामन्यतरस्याम् ||५|४|१०५ ।। आभ्यां ब्रह्मणो वा टच् स्यात् तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः । कुब्रह्मा || आन्महतः समानाधिकरणजातीययोः | ६|३|४६ महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः । महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम् । महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः सन्महदिति समासो ग्रहीष्यते चेत् महाबाहुर्न स्यात् । तस्माल्लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्येति परिभाषा नेह प्रवर्तते । समा
अत्र पाठान्तरम् । क्षुन, तृप्भु, नृनमन, नरनगर, नन्दन, नृतिर्यङि, गिरिनन्दी, गृहगमन, निवेश, निवास, अग्नि, अनूप, आचार्यभोगीन, चतुर्हायन, इरिकादीनि वनोत्तरपदानि संज्ञायाम् । इरिका, तिमिर, समीर, कुबेर, हरि, कर्मार । इति क्षुनादिः ॥