________________
तत्पुरुषः। पपदं सप्तमीस्थम् ।३।१।९२॥ सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः ॥ उपपदमति ।२।२। १९॥ उपपदं सुबन्तं समर्थन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिङ् किम् । मा भवान् भूत् । माङि लुङिति सप्तमीनिर्देशान्माकुपपदम् । अतिग्रहणं ज्ञापयति सुपेत्येतन्नेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते । सुपेति च निवृत्तम् । तथा च । गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेरिति सिद्धम् ॥ व्याघ्री । अश्वक्रीती । कच्छपी ॥ अमैवाव्ययेन ।२।२।२०॥ अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । खादुङ्कारम् । नेह । कालसमयवेलासु तुमुन् । कालः समयो वेला वा भोक्तम् । अमैवेति किम् । अग्रे भोजम् । अग्रे भुक्त्वा । विभाषाग्रे प्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥ तृतीयाप्रभृतीन्यन्यतरस्याम् ।।२।२१॥ उपदंशस्तृतीयायामित्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥ क्त्वा च ।२।२।२२ ॥ तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैःकृत्य । उच्चैःकृत्वा । अव्ययेऽयथाभिप्रेतेति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा । खलु कृत्वा ॥ तत्पुरुषस्याङ्गुले संख्याव्ययादेः ।।४।८६ ॥ संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥ अहःसर्वेकदेशसंख्यातपुण्याच्च रात्रे ।।४।८७ ॥ एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः । अर्ग्रहणं द्वन्द्वार्थम् । अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्व रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयो राज्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ॥ राजाहासखिभ्यष्टच् ।५।४।९१ ॥ एतदन्तात्तत्पुरुषाच् स्यात् । परमराजः । अतिराजी । कृष्णसखः ॥ अहष्टखोरेव ।। ४।१४५॥ टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । तमधीष्ट इत्यधिकारे द्विगोर्वेत्यनुवृत्तौ रात्र्यहःसंवत्सराचेति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्रराज्ञी ॥ अहोह एतेभ्यः ।।४।८८॥ सर्वादिभ्यः परस्याहन्शब्दस्याहादेशः स्यात्समासान्ते परे ॥ अहोऽदन्तात् ।८॥४७॥ अदन्तपूर्वपदस्थाद्रेफात्परस्याऽहादेशस्य नस्य णः स्यात् । सर्वाणः । पूर्वाह्नः । संख्याताहः । द्वयोरहोर्भवः । कालाढञ् । द्विगोलुंगनपत्य इति ठजो लुक् । व्यह्नः । स्त्रियामदन्तत्वाट्टाप् । यहा । यहप्रियः । अत्यह्नः ॥ झुन्नादिषु च ।८।४।३९ ॥ एषु णत्वं न स्यात् । दीर्घाही प्रावृट् ।
१क्षुन, नृनमन, नन्दिन् , नन्दन, नगर । एतानि त्रीण्युत्तरपदानि संज्ञायां प्रयोजयन्ति । हरिनन्दी, हरिनन्दनः, गिरिनगरम् । नृतिर्यङि प्रयोजयति । नरीनृत्यते । नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप, एतानि सप्तोत्तरपदानि प्रयोजयन्ति । परिनर्तनमित्यादि । आचार्यादणवं च । आकृतिगणोऽयम् ।