________________
तत्पुरुषः।
७१
।२।११७२॥ एते निपात्यन्ते । मयूरो व्यंसको मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक्च उच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किंचन यस्य सः अकिंचनः । आख्यातमाख्यातेन क्रियासातत्ये * ॥ अग्नीत पिबतेत्येवं सततं यत्राभिधीयते सा अभीतपिबता । पचतभृज्जता । खादतमोदता ॥ एहीडादयोऽन्यपदार्थे * ॥ एहीड इति यस्मिन्कमणि तदेहीडम् । एहिपचम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सा उद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः ॥ जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति * ॥ जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेत्कर्ताऽभिधीयत इत्यर्थः ।। जहिजोडः । जहिस्तम्बः ॥ नास्ति कुतो भयं यस्य सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् ॥ ईषदकृता ।रारा७॥ ईषत्पिङ्गलः ।। ईषद्गुणवचनेनेति वाच्यम् * ॥ ईषद्रक्तम् ॥ नञ् ।।२।६॥ नञ् सुपा सह समस्यते ॥ नलोपो नमः।६।७३ ॥ नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणः अब्राह्मणः ॥ तस्मान्नुडचि ।६।३।७४ ॥ लुप्तनकारान्ना उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । अर्थाभावेऽव्ययीभावेन सहायं विकल्प्यते । रक्षोहागमलध्वसंदेहाः प्रयोजनमिति अद्रुतायामसंहितमिति च भाष्यवार्तिकप्रयोगात् । तेनानुपलब्धिरविवादोऽविघ्नमित्यादि सिद्धम् ॥ नमो नलोपस्तिङि क्षेपे * ॥ अपचसि त्वं जाल्म ॥ नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः ॥ नभ्रानपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनकनाकेषु प्रकृत्या ।६।३३७५॥ पादिति शत्रन्तः । वेदा इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चतीति नमुचिः । न कुलमस्य नकुलम् । न खमस्य नखम् । न स्त्री पुमान् नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न क्षरतीति नक्षत्रम् । क्षीयतेः क्षरतेर्वा क्षत्रमिति निपात्यते । न कामतीति नक्रः । कमेडः । न अकमस्मिन्निति नाकः ॥ नगोऽप्राणिष्वन्यतरस्याम् ।६।३।७७॥ नग इत्यत्र नञ् प्रकृत्या वा । नगाः अगाः पर्वताः । अप्राणिष्विति किम् । अगो वृषलः शीतेन । नित्यं क्रीडेत्यतो नित्यमित्यनुवर्तमाने ॥ कुंगतिप्रादयः।।२।१८॥ एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । गतिश्चेत्यनुवर्तमाने ॥ ऊर्यादिविडाचश्च ।।४।६१॥ एते क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । उररीकृत्य । शुक्लीकृत्य । पटपटाकृत्य ॥ कारिकाशब्दस्योपसंख्यानम् * ॥ कारिका क्रिया । कारिकाकृत्य ॥ अनुकरणं चानितिपरम् ।।४।६२॥ खाकृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् ॥ आदरानादरयोः सदसती ॥१॥४॥६३ ॥ सत्कृत्य । असत्कृत्य ॥ भूषणे
१ प्रादयस्तु पूर्वमुक्ताः ॥ २ ऊरी. उररी. वेताली, धूसी, शकला, स्रंसकला, ध्वंसकला, भ्रंसकला. गुलगुधा, सजूः, फल, फली, विक्ली, आक्ली, आलोष्ठी, केवाली, सेवाली, शेवाली, वर्षाली, मसमसा, मस्मसा, वौषट् , वषट् , श्रौषट् , खाहा, खधा, पाम्पी, प्रादुः, श्रत् , आविस् । इत्यूर्यादिः। कैश्चिदन्येऽप्यत्र पठ्यन्ते। ते च यथा। पथा, पाम्पाली, संकला, केवासी, वार्दाली, पार्दाली, आलम्बी, आङ्गी, तन्थी, ताली, आताली, धूली, अश्मसा, अशला, मरमसा, मष्मसा, बन्धा इत्यादि।