________________
सिद्धान्तकौमुद्याम् पञ्चमभार्या । स्रौनभाया । सुकेशभार्या । ब्राह्मणभार्या । एवं पाचकजातीया । पाचकदेशीयेत्यादि । इभपोटा । पोटा स्त्रीपुंसलक्षणा । इभयुवतिः। अग्निस्तोकः । उदश्वित्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूतिका, गोधेनुः । वशा वन्ध्या, गोवशा । वेहत् गर्भघातिनी, गोवेहत् । बष्कयणी तरुणवत्सा, गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः । प्रशंसावचनैश्च ।२।१६६॥ एतैः सह जातिः प्राग्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम् । गवोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गा न तु विशेष्यनिघ्नाः । जातिः किम् । कुमारी मतल्लिका ॥ युवा खलतिपलितवलिनजरतीभिः ।।१।६७ ॥ पूर्वनिपातनियमार्थ सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्सामानाधिकरण्यम् ॥ कृत्यतुलाख्या अजात्या ।।१। ६८॥ भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः । अजात्या किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याविशेषणसमासोऽपि न ॥ वर्णों वर्णन ।२।१।६९॥ समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ॥ कैंडाराः कर्मधारये ।।२।३८ ॥ कडारादयः शब्दाः कर्मधारये वा पूर्व प्रयोज्याः। कडारजैमिनिः । जैमिनिकडारः ॥ कुमारः श्रमणादिभिः ।।१।७०॥ कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् ॥ चतुष्पादो गर्भिण्या ।२।१।७१॥ चतुष्पोजातिवाचिनो गर्भिणीशब्देन सह प्राग्वत् ॥ गोगर्भिणी ॥ मयूरव्यंसकादयश्च
१ मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनीत्यमरः ॥ २ सारङ्गश्चित्रो वर्णः । कृष्णशब्दः कृष्णावयवके लाक्षणिक इति सामानाधिकरण्यम् ॥ ३ कडार, गडुल, खञ्ज,खोड, काण, कुण्ट, खलति, गौर, वृद्ध, भिक्षुक, पिङ्ग, पिङ्गल, तनु, जठर, बधिर, मठर, कुञ्ज, बर्बर, इति कडारादिः । क्वचित्तु । नौ, काक, अन्न, शुक, शृगाल, प्रकृति, प्राय, गोत्र, सम, विषम, द्विद्रोण, पञ्चक, साहस्र, प्रति, परि, अनु । एतेऽपि दृश्यन्ते ॥ ४ श्रमणा, प्रव्रजिता, कुलटा, गर्भिणी, तापसी, दासी, बन्धकी, अध्यापक, अभिरूपक, पण्डित, पटु, मृदु, कुशल, चपल, निपुण इति श्रमणादिः॥ ५ चतुष्पाजातिरिति वक्तव्यम् ॐ ॥ नेह । स्वस्तिमती गर्भिणी ॥ ६ मयूरव्यंसक, छात्रव्यंसक, कम्बोजमुण्ड । छन्दसि । हस्तेगृह्य, पादेगृह्य, लालिगृह्य, पुनर्दाय, एहीडादयोऽन्यपदार्थे, एहीडम्, एहिपचम् , एहिवाणिजा। क्रिया । अपेहिवाणिजा, प्रेहिवाणिजा, एहिखागता, अपेहिखागता, एहिद्वितीया, अपेहिद्वितीया, प्रेहिद्वितीया, एहिकटा, अपेहिकटा, प्रेहि कटा, आहरकरटा, प्रेहिकरटा, प्रेहिकर्दमा,प्रोहिकर्दमा, विधमचूडा, उद्धमचूडा, आहरचेला, आहरवनिता, आहरवसना, कृन्तविचक्षणा, उद्धरोत्सृजा, उद्धरावसृजा, उद्धमविधमा, उत्पचनिपचा, उत्पतनिपता, उच्चावचम् , उच्चनीचम् , आचोपचम् , आचपराचम् , निश्चप्रचम् , अकिंचनः, स्नात्वाकालकः, पीत्वास्थिरकः, भुक्त्वासुहितः, प्रोष्यपापीयान् , उत्पत्यपाकला, निपत्यरोहिणी, निषण्णश्यामा, अपेहिप्रघसा, एहि विघसा, इहपञ्चमी, इहद्वितीया। जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति, जहिजोडः, जहिस्तम्बः। आख्यातमाख्यातेन क्रियासातत्ये । अनीतपिबता, पचतभृजता, खादतमोदता, खादतवमता, आहरनिवया, आहरनिष्करा, भिन्धिलवणा, कृन्धिविचक्षणा, पचलवणा, पचप्रकूटा। आकृतिगणोऽयम्। तेन अकुतोभय, कान्दिशीक, आहोपुरुषिका, अहमहमिका, यदृच्छा, एहिरेयाहिरा, उन्मृजविमृजा, द्रव्यान्तरम् , अवश्यकार्यमित्यादि सिद्धम् ॥