________________
तत्पुरुषः । व्याघ्रादिभिः सामान्याप्रयोगे ।२।१॥५६॥ उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनिपातार्थ सूत्रम् । पुरुषव्याघ्रः। नृसोमः। व्याघ्रादिराकृतिगणः । सामान्याप्रयोगे किम् । पुरुषो व्याघ्र इव शूरः ॥ विशेषणं विशेष्येण बहुलम् ।२।१।५७॥ भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात्वचिन्नित्यम् । कृष्णसर्पः । कचिन्न । रामो जामदग्न्यः ॥ पूर्वोपरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च २।११५८॥ पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः। अपराध्यापकः ॥ अपरस्यार्धे पश्चभावो वक्तव्यः * ॥ अपरश्वासावर्धश्च पश्चार्धः । कथमेकवीर इति । पूर्वकालैकेति बाधित्वा परत्वादनेन समासे वीरैक इति हि स्यात् । बहुलग्रहणाद्भविप्यति ॥ श्रेण्यादयः कृतादिभिः ।।११५९॥ श्रेण्यादिषु च्छ्वर्थवचनं कर्तव्यम् * ॥ अश्रेणयः श्रेणयः कृताः श्रेणीकृताः ॥ क्तेन नविशिष्टेनानञ् ।२।१।६०॥ नविशिष्टेन क्तान्तेनानञ् क्तान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् ॥ शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् * ॥ शाकप्रियः पार्थिवः शाकपार्थिवः । देवब्राह्मणः ॥ सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ।२।१।६१॥ सद्वैद्यः । वक्ष्यमाणेन महत आकारः । महावैयाकरणः । पूज्यमानैः किम् । उत्कृष्टो गौः । पादुद्धृत इत्यर्थः ॥ वृन्दारकनागकुञ्जरैः पूज्यमानम् ।२।११६२ ॥ गोवृन्दारकः ॥ व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थ वचनम् ॥ कतरकतमौ जातिपरिप्रश्ने ।२।०६३॥ कतरकठः । कतमकलापः । गोत्रं च चरणैः सहेति जातित्वम् ॥ किं क्षेपे ।२।११६४ ॥ कुत्सितो राजा किंराजा । यो न रक्षति ॥ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः ।।१६५ ॥ तत्पुरुषः समानाधिकरणः कर्मधारयः ।।२।४२॥ पुंवत्कर्मधारयजातीयदेशीयेषु ।६।३॥४२॥ कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्मिंस्तथाभूतं पूर्व पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री दत्तभार्या ।
१ व्याघ्र, सिंह, ऋक्ष, ऋषभ, चन्दन, वृक, वृष, वराह, हस्तिन्, तरु, पृषत्, पुण्डरीक, पलाश, कितव । इति व्याघ्रादिराकृतिगणः। तेन घनश्यामः, नृसोमः, मुखपद्मम् , मुखकमलम् , करकिसलयम्, पार्थिवचन्द्र इत्यादि सिद्धम् ॥ २ श्रेणि, एक, पूग, मुकुन्द, राशि, विषय, निचय, निधन, पर, इन्द्र, देव, मुण्ड, भूत, श्रवण, वदान्य, अध्यापक, अभिरूपक, ब्राह्मण, क्षत्रिय, पटु, पण्डित, कुशल, चपल, निपुण, कृपण । इति श्रेण्यादयः॥ ३ कृत, मित, भूत, मत, उक्त, समाज्ञात, समानात, समाख्यात, संभावित, अवधारित, निराकृत, अवकल्पित, उपकृत, उपाकृत । इति कृतादिराकृतिगणः। तेन दृष्ट, कलित, दलित, उदाहृत, विश्रुत, उदित । एते ज्ञेयाः ॥ ४ शाकपार्थिव, कुतपसौश्रुत, अजातौल्वलि, आकृतिगणोऽयम् तेन कृतापकृत, भुक्तविभुक्त, पीतविपीत, गतप्रत्यागत, यातानुयात, ऋयाक्रयिक, पुटापुटिका, फलाफलिका, मानोन्मानिका । इत्यादि ज्ञेयः॥ ५ देवपूजको ब्राह्मण इत्यर्थः॥