________________
६८
सिद्धान्तकौमुद्याम् रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूर्वाह्नकृतम् । अपररात्रकृतम् । अवयवग्रहणं किम् । अह्नि दृष्टम् ॥ तत्र ।२।१॥४६॥ तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्रभुक्तम् ॥ क्षेपे ।२।१॥४७॥ सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् ॥ पात्रेसमितादयश्च ।२।१॥४८॥ एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः। गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः ॥ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ।२।११४९ ॥ विशेषणं विशेष्येणेति सिद्धे पूर्वनिपातनियमार्थ सूत्रम् । एकशब्दस्य दिक्संख्ये संज्ञायामिति नियमबाधनार्थं च । पूर्व स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः। एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः । दिक्संख्ये संज्ञायाम् ।२।१५०॥ समानाधिकरणेनेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति नियमार्थ सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह । उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥ तद्धितार्थोत्तरपदसमाहारे च ।२।११५१॥ तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा । पूर्वस्यां शालायां भवः पौर्वशालः । समासे कृते दिक्पूर्वपदादसंज्ञायां ञ इति ञः ॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः * ॥ आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शालाशब्दे आकार उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे । षण्णां मातॄणामपत्यं पाण्मातुरः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते ॥ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् * ॥ गोरतद्वितलुकि ।।४।९२ ॥ गोऽन्तात्तत्पुरुषाच् स्यात् समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥ संख्यापूर्वो द्विगुः ।२।१५२ ॥ तद्धितार्थेत्यत्रोक्तः संख्यापूर्वो द्विगुः स्यात् ।। द्विगुरेकवचनम् ।।४।१॥ द्विग्वर्थः समाहार एकवत्स्यात् । स नपुंसकमिति नपुंसकत्वम् । पञ्चानां गवां समाहारः पञ्चगवम् ॥ कुत्सितानि कुत्सनैः।२।११५३ ॥ कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूढः ॥ पापाणके कुत्सितैः ।२।११५४॥ पूर्वसूत्रापवादः । पापनापितः । अणककुलालः ॥ उपमानानि समान्यवचनैः।२।११५५॥ घन इव श्यामो घनश्यामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थ सूत्रम् ॥ उपमितं
१ पात्रेसमिताः, पात्रेबहुलाः, उदुम्बरकृमिः, कूपकच्छपः, अवटकच्छपः, उदुम्बरमशकः, कूपमण्डूकः, कुम्भमण्डूकः, उदपानमण्डूका, नगरकाकः, नगरवायसः, मातरिपुरुषः, पिण्डीशूरः, पितरिशूरः, गेहेशूरः, गेहेनर्दी, गेहेविजिती, गेहेव्याडः, गेहेमेही, गेहेदाही, गेहेदृप्तः,गेहेधृष्टः, गर्भेतृप्तः, आखनिकबकः, गोष्ठेशूरः, गोष्ठेविजिती, गोष्ठेश्वेडी, गोष्ठेपटुः, गोष्ठेपण्डितः, गोष्ठेप्रगल्भः, कर्णेटिरिटिरा, कर्णेचुरुचुरा। इति पात्रेसमितादिराकृतिगणः॥