________________
तत्पुरुषः ।
६७ संज्ञा । संज्ञायामिति भावे ण्वुल । जीविकायाम् , दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकायां तृजकाभ्यां कर्तरीति निषेधे प्राप्ते वचनम् ॥ पूर्वापराधरोत्तरमेकदेशिनकाधिकरणे ।२।२।१ ॥ अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः ॥ एकदेशिना किम् । पूर्व नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् । सर्वोऽप्येकदेशोऽह्ना समस्यते । संख्या विसायेति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु सर्वोऽप्येकदेशः कालेन समस्यते न त्वद्वैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः । उपारताः पश्चिमरात्रगोचरा इत्यादि सिद्धमित्याहुः ॥ अर्ध नपुंसकम् ।।२।२॥ समांशवाच्यर्धशब्दो नित्यं क्लीबे स प्राग्वत् ॥ एकविभक्तावषष्ठ्यन्तवचनम् * ॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन पञ्चखट्टी इत्यादि सिद्ध्यति । अर्ध पिप्पल्याः अर्धपिप्पली । क्लीबे किम् । ग्रामार्धः । द्रव्यैक्य एव । अर्ध पिप्पलीनाम् ॥ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ।।२॥३॥ एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात्पूरणगुणेति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥ प्राप्तापन्ने च द्वितीयया ।२।२।४॥ पक्षे द्वितीयाश्रितेति समासः । प्राप्तो जीविकां प्राप्तजीविकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः । इह सूत्रे द्वितीयया अ इति छित्त्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्नजीविका ॥ कालाः परिमाणिना ।२।२५ ॥ परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य यस्य स मासजातः । व्यहजातः । द्वयोरहोः समाहारो यहः । व्यहो जातस्य यस्य स इति विग्रहः ॥ उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् * ॥ द्वे अहनी जातस्य यस्य स व्यह्वजातः । अहोऽह इति वक्ष्यमाणोऽहादेशः । पूर्वत्र तु न संख्यादेः समाहार इति निषेधः ॥ सप्तमी शौण्डैः ।२।१॥४०॥ सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । अध्युत्तरपदादिति खः । ईश्वराधीनः ॥ सिद्धशुष्कपक्कबन्धैश्च ।२।१४१॥ एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । आतपशुष्कः । स्थालीपक्कः । चक्रबन्धः ॥ ध्वाङ्ग्रेण क्षेपे ।२।१४२॥ ध्वाङ्ग्वाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्ग इव तीर्थध्वाङ्गः । तीर्थकाक इत्यर्थः ।। कृत्यैर्ऋणे ।२।१।४३ ॥ सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके । मासे देयं ऋणम् । पूर्वाह्ने गेयं साम ॥ संज्ञायाम् ।२।११४४ ॥ सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकसेरुकाः। हलदन्तात्सप्तम्या इत्यलुक् ॥ तेनाहोरात्रावयवाः ।।१॥४५॥ अह्रो
१ शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर, अधि, पटु, पण्डित, कुशल, चपल, निपुण इति शौण्डादिः॥