________________
सिद्धान्तकौमुद्याम् अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । पञ्चम्याः स्तोकादिभ्य इत्यलुक्॥ षष्ठी ।२२८ ॥ राज्ञः पुरुषो राजपुरुषः ॥ योजकादिभिश्च ।।२।९॥ एभिः षष्ठ्यन्तं समस्यते । तृजकाभ्यां कर्तरीत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः ॥ गुणात्तरेण तरलोपश्चेति वक्तव्यम् * ॥ तरबन्तं यद्गुणवाचि तेन सह समासस्तरप्प्रत्ययलोपश्च । न निर्धारण इति पूरणगुणेति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् ॥ कृद्योगा च षष्ठी समस्यत इति वाच्यम् * ॥ इध्मस्य व्रश्चनः इध्मव्रश्चनः ॥ न निर्धारणे ।।२।१०॥ निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः ॥ प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् * ॥ सर्पिषो ज्ञानम् ॥ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ।२।२।११ ॥ पूरणाद्यथैः सदादिभिश्च षष्ठी न समस्यते । पूरणे, सतां षष्ठः । गुणे, काकस्य कार्ण्यम् । ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेदमुदाहरणम् । अनित्योऽयं गुणेन निषेधः । तदशिष्यं संज्ञाप्रमाणत्वादित्यादिनिर्देशात् । तेनार्थगौरवं बुद्धिमान्द्यमित्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः, फलानां सुहितः । तृतीयासमासस्तु स्यादेव । खरे विशेषः । सत् , द्विजस्य कुर्वन् कुर्वाणो वा । किंकर इत्यर्थः । अव्ययम् , ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धमिति रक्षितः । तव्यः, ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् खरे भेदः । समानाधिकरणे तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहुलग्रहणान्न । गोर्धेनोरित्यादिषु पोटायुवतीत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाबाधकः षष्ठीसमासः प्राप्तः सोऽप्यनेन वार्यते ॥ तेन च पूजायाम् ।२।२।१२॥ मतिबुद्धीति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥ अधिकरणवाचिना च ।२।२।१३ ॥ क्तेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा ॥ कर्मणि च ।।२।१४ ॥ उभयप्राप्तौ कर्मणीति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन ॥ तृजकाभ्यां कर्तरि ।।२।१५ ॥ कर्बर्थतजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । व्रजस्य भर्ता । ओदनस्य पाचकः । कर्तरि किम् । इथूणां भक्षणमिक्षुभक्षिका । पत्यर्थभर्तृशब्दस्य तु याजकादित्वात्समासः । भूभर्ता । कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलह इति । शेषषष्ठ्या समास इति कैयटः ॥ कर्तरि च ।।२।१६ ॥ कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठ्या अभावात् ॥ नित्यं क्रीडाजीविकयोः ।२। २॥१७॥ एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य
. १ याजक, पूजक, परिचारक, परिषेचक, परिवेषक, नापक, अध्यापक, उत्साहक, उद्वर्तक, होत, भर्तृ, रथगणक, पत्तिगणक, इति याजकादिः।