________________
तत्पुरुषः । खयं तेन ।२।१२५ ॥ द्वितीयेति न संबध्यते अयोग्यत्वात् । स्वयंकृतस्यापत्यं खायंकृतिः ॥ खट्वा क्षेपे ।२।१।२६॥ खटाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ॥ सामि ।।१।२७॥ सामिकृतम् ॥ कालाः ।।१।२८ ॥ तेनेत्येव । अनत्यन्तसंयोगार्थ वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमारब्धवानित्यर्थः ॥ अत्यन्तसंयोगे च ।२।१॥२९॥ काला इत्येव । अक्तान्तार्थ वचनम् । मुहूर्त सुखं मुहूर्तसुखम् ॥ तृतीया तत्कृतार्थेन गुणवचनेन ।२।१॥३०॥ तत्कृतेति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । तत्कृतेति किम् । अक्ष्णा काणः ॥ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ।।१॥३१॥ तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः । ऊनार्थे, माषोनं कार्षापणम् । माषविकलम् । वाकलहः । आचारनिपुणः । गुडमिश्रः । आचारश्लक्ष्णः । मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । मिश्रं चानुपसर्गमसन्धावित्यत्रानुपसर्गग्रहणात् । गुडसंमिश्रा धानाः ॥ अवरस्योपसंख्यानम् * ॥ मासेनावरो मासावरः ॥ कर्तृकरणे कृता बहुलम् ।२।१।३२ ॥ कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो हरित्रातः । नखैभिन्नो नखभिन्नः ॥ कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणम् * ॥ नखनिर्भिन्नः । कर्तृकरणे इति किम् । भिक्षाभिरुषितः । हेतावेषा तृतीया । बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन दात्रेण लूनवानित्यादौ न । कृता किम् । काष्ठैः पचतितराम् ॥ कृत्यैरधिकार्थवचने ।२।१॥३३॥ स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनं तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी ॥ अन्नेन व्यञ्जनम् ।२।१॥३४ ॥ संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तभूतोपसेकक्रियाद्वारा सामर्थ्यम् ॥ भक्ष्येण मिश्रीकरणम् ।२।१॥३५॥ गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ॥ चतुर्थी तदथोथेबलिहितसुखरक्षितैः ।२।१।३६ ॥ चतुर्थ्यन्तार्थाय यत्तद्वाचिनाऽर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभाव एव गृह्यते । बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेह । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठीसमासाः ॥ अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् * ॥ द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥ पश्चमी भयेन ।२।१॥३७॥ चोराद्भयं चोरभयम् ॥ भयभीतभीतिभीभिरिति वाच्यम् * ॥ वृकभीतः । वृकभीतिः। वृकभीः॥ अपेतापोढमुक्तपतितापत्रस्तरल्पशः।२।१॥३८॥ एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः। कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रासादात्पतितः ॥ स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ।२।१॥३९॥ स्तोकान्मुक्तः।