________________
६४
सिद्धान्तकौमुद्याम् दानय । गङ्गापारात् । मध्येगङ्गात् । गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गाया मध्यात् ॥ संख्या वंश्येन ।।१।१९ ॥ वंशो द्विधा विद्यया जन्मना च । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ द्विमुनि । व्याक. रणस्य त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशति भारद्वाजम् ॥ नदीभिश्च ।२।१॥२०॥ नदीभिः सह संख्या प्राग्वत् । समाहारे चायमिष्यते * ॥ सप्तगङ्गम् । द्वियमुनम् ॥ अन्यपदार्थे च संज्ञायाम् ।२।१।२१ ॥ अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् ॥ विभाषाधिकारेऽपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ॥ समासान्ताः ५४/६८॥ इत्यधिकृत्य ॥ अव्ययीभावे शरत्प्रभृतिभ्यः ।।४।१०७ ॥ शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर् । त्यद् । तद् । यद् । कियत् । जराया जरस् च । उपजरसम् । प्रतिपरसमनुभ्योऽक्षणः ॥ यस्येति च ॥ प्रत्यक्षम् । अक्ष्णः परमिति विग्रहे समासान्तविधानसामर्थ्यादव्ययीभावः । परोक्षे लिडिति निपातनात्परस्यौकारादेशः । परोक्षम् । परोक्षा क्रियेत्यादि तु अर्शआद्यचि । समक्षम् ॥ अनश्च ।।४।१०८ ॥ अन्नन्तादव्ययीभावाच् स्यात् ॥ नस्तद्विते ।६४।१४४ ॥ नान्तस्य भस्य टेलोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् । नपुंसकादन्यतरस्याम् ।।४।१०९ ॥ अन्नन्तं यक्लीयं तदन्तादव्ययीभावाच् वा स्यात् । उपचर्मम् । उपचर्म ॥ नदीपौर्णमास्याग्रहायणीभ्यः ।।४।११० ॥ वा टच् स्यात् । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपायहायणि ॥ झयः।५।४।१११ ॥ झयन्तादव्ययीभावादृज्वा । उपसमिधम् । उपसमित् ॥ गिरेश्च सेनकस्य ।५।४।११२॥ गिर्यन्तादव्ययीभावाट्टज्वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम् । उपगिरि ॥ इत्यव्ययीभावः॥ . तत्पुरुषः ।।१।२२ ॥ अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥ द्विगुश्च ।२।२३ ॥ द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । संख्यापूर्वो द्विगुश्चेति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् ॥ द्विती. या श्रितातीतपतितगतात्यस्तप्राप्तापनः ।।१।२४ ॥ द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीतः ॥ गम्यादीनामुपसंख्यानम् ॥ ग्रामं गमी. ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ।।
-
.१ शरदू, विपाश , अनस् , मनस् , उपानह् , अनडुङ् , दिव् , हिमवत् , हिरुक्, विद्, सद्, दिश् , दृश् , विश, चेतस्, चतुर, त्सद्, तद्, यद्, कियत् , जगया जरस् च, प्रतिपरसमनुभ्योऽक्षणः, पथिन्, । इति शरदादिः॥