________________
अव्ययीभावः। त्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् प्रतिशब्दस्य वीप्सायां कर्मप्रवनीयसंज्ञाविधानसामर्थ्यातद्योगे द्वितीयागर्भ वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे ॥ अव्ययीभावे चाकाले ।६।३।८१ ॥ सहस्यः सः स्यादव्ययीभावे न तु काले । सचक्रम् । काले तु सहपूर्वाह्नम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां संपत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः । अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । नत्वत्र तृणभक्षणे तात्पर्यम् । अन्ते । अग्मिग्रन्थपर्यन्तमधीते सामि ॥ यथाऽसादृश्ये ।२।१। ७॥ असादृश्ये एव यथाशब्दः समस्यते । तेनेह न । यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन सादृश्य इति वा यथार्थ इति वा प्राप्तं निषिध्यते ॥ यावदवधारणे ।।१।८ ॥ यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामा यावच्छोकम् ॥ सुप् प्रतिना मात्रार्थे ।२।१।९॥ शाकस्य लेशः शाकप्रति । मात्रार्थे किम् । वृक्षं वृक्षं प्रति विद्योतते विद्युत् ॥ अक्षशलाकासंख्याः परिणा ।२।१।१० ॥ द्यूतव्यवहारे पराजय एवायं समासः । अक्षेण विपरीतं वृत्तं अक्षपरि । शलाकापरि । एकपरि ॥ विभाषा ।।१॥११॥ अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । सुप्सुपेति तु न नित्यसमासः । अव्ययमित्यादिसमासविधानाज्ञापकात् ॥ अपपरिबहिरश्चवः पञ्चम्या ।२।१॥१२॥ अपविष्णु संसारः । अपविष्णोः । परिविष्णु । परिविष्णोः । बहिर्वनम् । बहिर्वनात् । प्राग्वनम् । प्राग्वनात् ॥ आडूमर्यादाभिविध्योः ।२।१।१३ ॥ एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः । आमुक्ति संसारः । आमुक्तेः । आबालं हरिभक्तिः । आबालेभ्यः ॥ लक्षणेनाभिप्रती आभिमुख्ये ।२।१।१४ ॥ आभिमुख्यद्योतकावभिप्रती चिह्नवाचिना सह प्राग्वत् । अभ्यग्नि शलभाः पतन्ति । अग्निमभि । प्रत्यग्नि । अमिं प्रति ॥ अनुर्यत्समाय ।२।१॥१५॥ यं पदार्थ समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ॥ यस्य चायामः।२।११६॥ यस्य दैर्ध्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी । गङ्गाया अनु । गङ्गादैर्घ्यसदृशदैोपलक्षितेत्यर्थः ॥ तिष्ठदुप्रभृतीनि च ।।१।१७॥ एतानि निपात्यन्ते । तिष्ठन्त्यो गावो यस्मिन्काले स तिष्ठद्गु दोहनकालः । आयतीगवम् । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते ॥ पारे मध्ये षष्ठया वा । २१।२८ ॥ पारमध्य. शब्दौ षष्ठयन्तेन सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गा
-१तिष्ठह, वहद्गु, आयत्तीगवम् , खलेथवम् , खलेबुपम्, लुनयवम्, लूयमानयषम्, पूलयम्, पूयमानर यवम् , सहृतयवम् , संहियमाणयवम् , संहृतबुसम्, संहियमाणबुसम्, समभूमि, समपदाति, सुषमम् , विष. मम् ; दुःषमम् , निःषमम् , अपसमम् , आयतीसमस्, पापसमम्, पुण्यसमम्, प्राहम्, प्ररथम्, प्रमृगम् , प्रदक्षिणम् , संप्रति, असंप्रति, इच् । इति तिष्ठदृग्वादिः ॥