________________
सिद्धान्तकौमुद्याम् 'समर्थः पदविधिः।।१।१॥ पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥ प्राकडारात्समासः ।।१३॥ कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते ॥ सह सुपा ।२।१४॥ सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगवि. भागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः। स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् ॥ सुपा ।२११४॥ सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ॥ सुपो धातुप्रातिपदिकयोः।।४७१ ॥ एतयोरवयवस्य सुपो लुक् स्यात् । भूतपूर्वे चरडिति निर्देशा. द्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः ॥ इवेन समासो विभक्त्यलोपश्च * ॥ जीमूतस्येव ।। अव्ययीभावः ।।१।५॥ अधिकारोऽयम् ॥ अव्ययं विभक्तिसमीपसमृद्धिव्यद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययोगपद्यसाहश्यसंपत्तिसाकल्यान्तवचनेषु ।२।१६ ॥ अव्ययमिति योगो विभज्यते । अव्ययं समर्थेन सह समस्यते सोऽव्ययीभावः ॥ प्रथमानिर्दिष्टं समास उपसर्जनम् ।१।२। ४३ ॥ समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥ उपसर्जनं पूर्वम् ।।२।३० ॥ समासे उपसर्जनं प्राक्प्रयोज्यम् ॥ एकविभक्ति चापूर्वनिपाते ।।२।४४ ॥ विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् नतु तस्य पूर्वनिपातः ॥ गोस्त्रियोरुपसर्जनस्य १॥रा४८॥ उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य हवः स्यात् । अव्ययीभावश्चेत्यव्ययत्वम् ॥ नाव्ययीभावादतोऽम् त्वपञ्चम्याः ।।४।८३ ॥ अदन्तादव्ययीभावात्सुपो न लुक् तस्य पञ्चमी विना अमादेशः । दिशयोर्मध्ये अपदिशम् । क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिस्त्रियामित्यमरः ॥ तृतीयासप्तम्योबेहुलम् ।। १४८४॥ अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात् । अपदिशम् । अपदिशेन । अपदिशम् । अपदिशे । बहुलग्रहणात्सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः । विभक्तीत्यादेरयमर्थः । विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते सोऽव्ययीभावः । विभक्तौ तावत् । हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि ङि अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी ॥ अव्ययीभावश्च ।।४।१८॥ अयं नपुंसकं स्यात् ॥ हखो नपुंसके प्रातिपदिकस्य ॥ गोपायतीति गाः पातीति वा गोपाः । तस्मिन्नित्यधिगोपम् । समीपे, कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम् , निकषा लङ्काम् , आराद्वनादित्यत्र तु नाव्ययीभावः । अभितः परितः, अन्यारादिति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । विगता ऋद्धिव्यद्धिः । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्मात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्रा संप्रति न युज्यत इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि-। विष्णोः पश्चादनुविष्णु । पश्चाच्छब्दस्य तु नायं समासः । ततः पश्चात्स्रस्यते ध्वंस्यते इति भाष्यप्रयोगात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपम् । रूपस्य योग्यमि