________________
६१
विभक्त्यर्थाः । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥ षष्ठी चानादरे ।२।३।३८ ॥ अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्राबाजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ।२।३।३९॥ एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठयामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गवां गोषु वा खामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ॥ आयुक्तकुशलाभ्यां चासेवायाम् ।।३।४०॥ आभ्यां योगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा । आसेवायां किम् । आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ॥ यतश्च निर्धारणम् ।।२॥४१॥ जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथकरणं निर्धारणं यतस्ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः ॥ पश्चमी विभक्ते ।।२४२ ॥ विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आब्यतराः ॥ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रते ॥४३॥ आभ्यां योगे सप्तमी स्यादर्चायां न तु प्रतेः प्रयोगे । मातरि साधुनिपुणो वा । अर्चायां किम् । निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् । अप्रत्यादिभिरिति वक्तव्यम् * ॥ साधुनिपुणो वा मातरं प्रतिपर्यनु वा ॥ प्रसितोत्सुकाभ्यां तृतीया च ।।३।४४ ॥ आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ॥ नक्षत्रे च लुपि ॥२॥३॥ ४५ ॥ नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् । पुष्ये शनिः ॥ सप्तमीपञ्चम्यो कारकमध्ये २।३७॥ शक्तिद्वयमध्ये यौ कालाध्वनौ ताभ्यामेते स्तः । अद्य भुक्त्वाऽयं व्यहे व्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्यते । तदस्मिन्नधिकमिति यस्मादधिकमिति च सूत्र निर्देशात् । लोके लोकाद्वाधिको हरिः ॥ अधिरीश्वरे ।१।४।९७ ॥ खखामिसंबन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥ यस्मादधिक यस्य चेश्वरवचनं तत्र सप्तमी ।।३।९॥ अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् । उपपरार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु खखामिभ्यां पर्यायेण सप्तमी । अधिभुवि रामः । अधिरामे भूः । सप्तमी शौण्डैरिति समासपक्षे तु रामाधीना । अषडक्षेत्यादिना खः ॥ विभाषा कृत्रि ।१।४९८ ॥ अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरस्वं गम्यते । अगतित्वात्तिङि चोदात्तवतीति निघातो न ॥
इति विभक्त्यर्थाः॥