________________
६०
सिद्धान्तकौमुद्याम्
दैत्यान् धातुको हरिः ॥ कमेरनिषेधः * ॥ लक्ष्म्याः कामुको हरिः । अव्ययम् । जगत् सृष्ट्ा । सुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्चो हरिणा । तृन्निति प्रत्याहारः शतृशानचाविति तृशब्दादारभ्य तृनो नकारात् । शानन् । सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् ॥ द्विषः शतुर्वा * ॥ मुरस्य मुरं वा द्विषन् ॥ सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः ॥ शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नकरस्य जिष्णुः ॥ अनोर्भवि
यदाधमर्ण्ययोः | २|३|७० || भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सतः पालकोऽवतरति । ब्रेज गामी । शतं दायी ॥ कृत्यानां कर्तरि वा | २|३|७१ ॥ षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् । गेयो माणवकः साम्नाम् । भव्यगेयेति कर्तरि यद्विधानादनभिहितं कर्म । अत्र योगो विभज्यते ॥ कृत्यानाम् ॥ उभयप्राप्ताविति नेति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । ततः ॥ कर्तरि वा ॥ उक्तोऽर्थः ॥ तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् | २|३|७२ ॥ तुल्याथैर्योगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् । तुला उपमा वा कृष्णस्य नास्ति ॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ।२।३।७३ ॥ एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी । आशिष आयुष्यं चिरं जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शं अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् । देवदत्तस्यायुष्यमस्ति । व्याख्याना - त्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः ॥ आधारोऽधिकरणम् |१|४|४५ ॥ कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञं स्यात् ॥ सप्तम्यधिकरणे च | २|३| ३६ || अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापक श्वेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छाऽस्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा ॥ दूरान्तिकार्थेभ्य इति विभक्तित्रयेण सह चतस्रोss विभक्तयः फलिताः || तस्येन्विषयस्य कर्मण्युपसंख्यानम् * ॥ अधीती व्याकरणे । अधीतमनेनेति विग्रहे इष्टादिभ्यश्चेति कर्तरीनिः ॥ साध्वसाधुप्रयोगे च * || साधुः कृष्णो मातरि । असाधुर्मातुले || निमित्तात्कर्मयोगे * || निमित्तमिह फलम् । योगः संयोगसमवायात्मकः ॥ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीनि पुष्कलको हृतः ॥ १ ॥ हेतौ तृतीयाsत्र प्राप्ता तन्निवारणार्थमिदम् । सीमाऽण्डकोशः । पुष्कलको गन्धमृगः । योगविशेषे किम् । वेतनेन धान्यं लुनाति ॥ यस्य च भावेन भावलक्षणम् | २|३|३७|| यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥ अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च * ॥ सत्सु तरत्सु असन्त आसते ।
१ अत्र व्रजं गमीत्यपि पाठः ॥