________________
विभक्त्यर्थीः ।
५९ स्मरणम् । सर्पिषो दयनम् । ईशनं वा ॥ कृतः प्रतियत्ने ।२।३।५३ ॥ कृत्रः कर्मणि शेषे षष्ठी स्याद्गुणाधाने । एधो दकस्योपस्करणम् ॥ रुजार्थानां भाववचनानामज्वरेः। २॥३॥५४॥ भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा ॥ अज्वरिसंताप्योरिति वाच्यम् * ॥ रोगस्य चौरज्वरः । चौरसंतापो वा । रोगकर्तृकं चौरसंबन्धि ज्वरादिकमित्यर्थः ॥ आशिषि नाथः।।३२५५॥ आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषीति किम् । माणवकनाथनम् । तत्संबन्धिनी याच्नेत्यर्थः । जासिनिप्रहणनाटकाथपिषां हिंसायाम् ।।३२५६॥ हिंसानामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योजासनम् । निप्रौ संहतो विपर्यस्तौ व्यस्तौ वा । चौरस्य निग्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा । नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायां किम् । धानापेषणम् ॥ व्यवहृपणोः समर्थयोः।२।३१५७॥ शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं पणनं वा । समर्थयोः किम् । शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः ॥ दिवस्तदर्थस्य ।।३।५८॥ द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् । ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥ विभाषोपसर्ग ।२।३१५९ ॥ पूर्वयोगापवादः । शतस्य शतं वा प्रतिदीव्यति ॥ प्रेष्यनुवोर्हविषो देवतासंप्रदाने ।।२६१ ॥ देवतासंप्रदानेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात् । अमये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा ॥ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे २३६४ ॥ कृत्वोऽर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽहो भोजनम् । द्विरह्रो भोजनम् । शेषे किम् । द्विरहन्यध्ययनम् ॥ कर्तृकर्मणोः कृति ।।३। ६५॥ कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्णः ।। गुणकर्मणि वेष्यते * ॥ नेताऽश्वस्य स्रुघ्नस्य स्रुघ्नं वा । कृति किम् । तद्धिते मा भूत् । कृतपूर्वी कटम् ॥ उभयप्राप्ती कर्मणि शश६६ ॥ उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन ॥ स्त्रीप्रत्यययोरकाकारयो यं नियमः ॥ भेदिका बिभित्सा वा रुद्रस्य जगतः ॥ शेषे विभाषा * ॥ स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिहरेहरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥ क्तस्य च वर्तमाने ।।३।६७ ॥ वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । न लोकेति निषेधस्याऽपवादः । राज्ञां मतो बुद्धः पूजितो वा ॥ अधिकरणवाचिनश्च ।।३।६८ ॥ क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं गतं शयितं भुक्तं वा । न लोकाव्ययनिष्ठाखलर्थतनाम् ।।३।६९ ॥ एषां प्रयोगे षष्ठी न स्यात् । लादेशाः । कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उः । हरिं दिक्षुः । अलंकरिष्णुर्वा । उक ।