________________
५८
सिद्धान्तकौमुद्याम् परिभिः ॥२॥३॥१०॥ एतैः कर्मप्रवचनीयैोंगे पञ्चमी स्यात् । अपहरेः परिहरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिंपरि । आमुक्तेः संसारः । आसकलाम ॥ प्रतिः प्रतिनिधिप्रतिदानयोः।१।४।९२ ॥ एतयोरर्थयोः प्रतिरक्तसंज्ञः स्यात् ॥ प्रतिनिधिप्रतिदाने च यस्मात् ।।३।११॥ अत्र कर्मप्रवचनीयैयोंगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णाप्रति । तिलेभ्यः प्रतियच्छति माषान् ॥ अकर्तर्येणे पञ्चमी ।।३।२४ ॥ कर्तृवर्जितं यणं हेतुभूतं ततः पञ्चमी स्यात् । शताबद्धः । अकर्तरि किम् । शतेन बन्धितः ॥ विभाषा गुणेऽस्त्रियाम् ।।३।२५ ॥ गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् । धनेन कुलम् । अस्त्रियां किम् । बुद्ध्या मुक्तः । विभाषेति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादमिमान् । नास्ति घटोऽनुपलब्धेः ॥ पृथग्विनानानाभिस्तृतीयाऽन्यरस्याम् ।२।३।३२॥ एभियोगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्यांग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीयेऽनुवर्तते । पृथग् रामेण रामात् रामं वा । एवं विना नाना ॥ करणे च स्तोकाल्पकृच्छकतिपयस्यासत्त्ववचनस्य ।२।२३३॥ एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः ॥ दूरान्तिकार्थेभ्यो द्वितीया च ।।३।३५ ॥ एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमाने विधिरयम् । ग्रामस्य दूरं दूरात् दूरेण वा । अन्तिकम् अन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥ षष्ठी शेषे ।।३। ५०॥ कारकप्रातिपदिकार्थव्यतिरिक्तः खखामिभावादिसंबन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि संबन्धमात्र विवक्षायां षष्ठयेव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शंभोश्चरणयोः । फलानां तृप्तः ॥ षष्ठी हेतुप्रयोगे ।।३।२६ ॥ हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ॥ सर्वनाम्नस्तुतीया च ।।३।२७ ॥ सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः । निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् * ॥ किंनिमित्तं वसति । केन निमिलेन । कस्मै निमित्तायेत्यादि । एवं किं कारणं को हेतुः किं प्रयोजनमित्यादि । प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि । षष्टयतसर्थप्रत्ययेन ।२।३।३० ॥ एतद्योगे षष्ठी स्यात् । दिक्शब्देति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः पुरः पुरस्तात् उपरि उपरिष्टात् ॥ एनपा द्वितीया ।२।३।३१॥ एनबन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागाषष्ठयपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥ दूरान्तिकाथैः षष्ठयन्यतरस्याम् ॥२॥३॥ ३४॥ एतैोंगे षष्ठी स्यात्पञ्चमी च । दूरं निकटं ग्रामस्य ग्रामाद्वा ॥ ज्ञोऽविदर्थस्य करणे ।२।२५१ ॥ जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ॥ अधीगर्थद्रयेशां कर्मणि ।।३।५२ ॥ एषां कर्मणि शेषे षष्ठी स्यात् । मातुः