________________
५७
विभक्त्यर्थाः। एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥ ध्रुवमपायेऽपादानम् ।१।४।२४ ॥ अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ॥ अपादाने पश्चमी ।।३।२८॥ ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् । वृक्षस्य पण पतति ॥ जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् * ॥ पापाजगुप्सते विरमति । धर्मात्प्रमाद्यति ॥ भीत्रार्थानां भयहेतुः।१।४।२५ ॥ भयार्थानां त्राणार्थानां च प्रयोगे भयहेतुरपादानं स्यात् । चोराद् बिभेति । चोरात्रायते । भयहेतुः किम् । अरण्ये बिभेति त्रायते वा ॥ पराजेरसोढः।१।४।२६ ॥ पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । ग्लायतीत्यर्थः । असोढः किम् । शत्रून्पराजयते । अभिभवतीत्यर्थः ॥ वारणार्थानामीप्सितः।१।४।२७ ॥ प्रवृत्तिविघातो वारणम् । वारणार्थानां धातूनां प्रयोगे ईप्सितोऽर्थोऽपादानं स्यात् । यवेभ्यो गां वारयति । ईप्सितः किम् । यवेभ्यो गां वारयति क्षेत्रे ॥ अन्तधौं येनादर्शनमिच्छति ।१।४।२८॥ व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तौ किम् । चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् । अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥ आख्यातोपयोगे ।१।४।२९ ॥ नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् । नटस्य गाथां शृणोति ॥ जनिकर्तुः प्रकृतिः ॥१॥४॥३०॥ जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ॥ भुवः प्रभवः ॥१॥४॥३१॥ भवनं भूः । भूकर्तुः प्रभवस्तस्था । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशत इत्यर्थः ॥ ल्यब्लोपे कर्मण्यधिकरणे च * ॥ प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । श्वशुराजिहति । श्वशुरं वीक्ष्येत्यर्थः । गम्यमानापि क्रिया कारकविभक्तीनां निमितम् । कस्मात्त्वं नद्याः ॥ यतश्चाध्वकालनिर्माणं तत्र पञ्चमी * ॥ तद्युक्तादध्वनः प्रथमासप्तम्यौ * ॥ कालात्सप्तमी च वक्तव्या * ॥ वनाद्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ॥ अन्यारादितरर्तेदिक्शब्दाश्चत्तरपदाजाहि युक्ते ।।३।२९ ॥ एतैोंगे पञ्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन संप्रति देशकालवृतिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववाचियोगे तु न । तस्य परमानेडितमिति निर्देशात् । पूर्व कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्दत्वेऽपि षष्ठ्यतसर्थेति षष्ठी बाधितुं पृथग्ग्रहणम् । प्राक् प्रत्यग्वा ग्रामात् । आच् , दक्षिणा ग्रामात् । आहि, दक्षिणाहि ग्रामात् । अपादाने पञ्चमीति सूत्रे कार्तिक्याः प्रभृतीति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । अपपरिबहिरिति समासविधानाज्ज्ञापकाहहिर्योगे पञ्चमी । ग्रामाबहिः॥ अपपरी वर्जने ११४८८॥ एतौ वर्जने कर्मप्रवचनीयौ स्तः ॥ आडू मर्यादावचने ।१।४।८९॥ आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ॥ पञ्चम्यपाडू