________________
५६
सिद्धान्तकौमुद्याम्
अभिद्रुह्यति ॥ राधीक्ष्योर्यस्य विप्रश्नः | १|४|३९ ॥ एतयोः कारकं संप्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ॥ प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता | १|४|४० || आभ्यां परस्य शृणोतेर्योगे पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितः प्रतिजानीत इत्यर्थः ॥ अनुप्रतिगृणश्च ॥ १|४|४१ ॥ आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुगृणाति । प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः ॥ परिक्रयणे संप्रदानमन्यतरस्याम् | १|४|४४ ॥ नियतकालं भृत्या स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन शताय वा परिक्रीतः । तादर्थ्ये चतुर्थी वाच्या * ॥ मुक्तये हरिं भजति ॥ लृपि संपद्यमाने च * ॥ भक्तिर्ज्ञानाय कल्पते संपद्यते जायते इत्यादि ॥ उत्पातेन ज्ञापिते च * ॥ वाताय कपिला विद्युत् ॥ हितयोगे च * ॥ ब्राह्मणाय हितम् ॥ क्रिया
पपदस्य च कर्मणि स्थानिनः | २|३|१४ ॥ क्रियार्थी क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तुं याती - त्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्येत्यादावपि ॥ तुमर्थाच्च भाववचनात् | २|३|१५ ॥ भाववचनाश्चेति सूत्रेण यो विहितस्तदन्ताचतुर्थी स्यात् यागाय याति । यष्टुं यातीत्यर्थः ॥ नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च । २।३।१६ ॥ एभिर्योगे चतुर्थी स्यात् । हरये नमः ॥ उपपदविभक्तेः कारकविभक्तिर्बलीयसी । नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । प्रभ्वादि - योगे षष्ठ्यपि साधुः । तस्मै प्रभवति स एषां ग्रामणीरिति निर्देशात् । तेन प्रभुर्बुभूषुर्भुवनत्रयस्येति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि चतुर्थी चाशिषीति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् ॥ मन्यकर्मण्यनादरे विभाषाप्राणिषु । २।३।१७ ॥ प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वे ॥ अप्राणिष्वित्यपनीय नौकाकान्नशुकशृगालवर्जेष्विति वाच्यम् * ॥ तेन न त्वां नावमन्नं वा मन्ये इत्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने श्वानं वा मन्ये इत्यत्र प्राणित्वेऽपि भवत्येव || गत्यर्थकर्मणि द्वितीयाचतुथ्यौं चेष्टायामनध्वनि।२।३।१२ ॥ अध्वभिन्ने गत्यर्थानां कर्मणि एते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । चेष्टायां किम् । मनसा हरिं व्रजति । अनध्वनीति किम् । पन्थानं गच्छति । गन्नाधिष्ठितेऽध्वन्येवाऽयं निषेधः । यदा तूत्पथात्पन्था
1
१ वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् । इति भाष्योक्तश्लोकवार्तिकम् ॥