________________
विभक्त्यर्थाः। नायातः ॥ सहयुक्तेऽप्रधाने ।२।३।१९ ॥ सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसाधसमंयोगेऽपि । विनापि तद्योगं तृतीया । वृद्धोयूनेत्यादिनिर्देशात् ॥ येनाङ्गविकारः।।३।२०॥ येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया स्यात् । अक्ष्णा काणः । अक्षिसंबन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् । अक्षि काणमस्य ॥ इत्थंभूतलक्षणे ।२।३।२१ ॥ कंचित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ॥ संज्ञोऽन्यतरस्यां कर्मणि ।।।२२ ॥ संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानीते ॥ हेतौ ।।३।२३ ॥ हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः। पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका । अलंश्रमेण । श्रमेण साध्यं नास्तीत्यर्थः । इह साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान्पाययति पयः । शतेन परिच्छिद्येत्यर्थः ॥ अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया * ॥ दास्या संयच्छते कामुकः । धर्मे तु भार्यायै संयच्छति ॥ कर्मणा यमभिप्रेति स संप्रदानम् ।।४।३२॥ दानस्य कर्मणा यमभिप्रेति स संप्रदानसंज्ञः स्यात् ॥ चतुर्थी संप्रदाने ।२।३।१३ ॥ विप्राय गां ददाति । अनभिहित इत्येव । दानीयो विप्रः ॥ क्रियया यमभिप्रैति सोऽपि संप्रदानम् * ॥ पत्ये शेते ॥ यजेः कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा * ॥ पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ॥ रुच्यर्थानां प्रीयमाणः। १४॥३३ ॥ रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः संप्रदानं स्यात् । हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः की । प्रीयमाणः किम् । देवदत्ताय रोचते मोदकः पथि ॥ श्लाघहस्थाशपां ज्ञीप्स्यमानः।१।४।३४ ॥ एषां प्रयोगे बोधयितुमिष्टः संप्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते हुते तिष्ठते शपते वा । ज्ञीप्स्यमानः किम् । देवदत्ताय श्लाघते पथि ॥ धारेरुत्तर्मणः ।११४३५ ॥ धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । उत्तमर्णः किम् । देवदत्ताय शतं धारयति ग्रामे ॥ स्पृहेरीप्सितः॥१४॥३६॥ स्पृहयतेः प्रयोगे इष्टः संप्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् । पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ॥ क्रुधदुहेासूयार्थानां यं प्रति कोपः।
श४३७ ॥ क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ण्यति । असूयति । यं प्रति कोपः किम् । भार्यामीर्ण्यति मैनामन्यो द्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । दुहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥ क्रुधद्रुहोरुपसृष्टयोः कर्म ।११४॥३८॥ सोपसर्गयोरनयोर्य प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुद्ध्यति ।