________________
५४
सिद्धान्तकौमुद्याम्
उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति पर्यनु वा विद्योतते विद्युत् । इत्थंभूताख्याने, भक्तो विष्णुं प्रति पर्यनु वा । भागे, लक्ष्मीर्हरिं प्रति पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां वृक्षं वृक्षं प्रति पर्यनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् । परिषिञ्चति ॥ अभिरभागे | १|४|११ || भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिमभि । देवंदेवमभिसिञ्चति । अभागे किम् । यदत्र ममाभिष्यात्तद्दीयताम् || अधिपरी अनर्थक | १|४| ९३ ॥ उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसंज्ञाबाधाद्गतिर्गताविति निघातो न ॥ सुः पूजायाम् | १|४|९४ || सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् । सुषिक्तं किं तवात्र । क्षेपोऽयम् ॥ अतिरतिक्रमणे च ।१।४।९५ ॥ अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अतिदेवान् कृष्णः ॥ अपिः पदार्थसंभावनाऽन्ववसर्ग गर्दासमुच्चयेषु । १।४।९६ ॥ एषु द्योत्येष्वपिरुक्तसंज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । संभावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यते । सर्पिष्ठ तु अपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसंबन्धे । इयमेव ह्यपिशब्दस्य पदार्थो - तता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् ॥ अपि स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः ॥ अपि स्तुहि । अन्ववसर्गः कामचारानुज्ञा ॥ धिग्देवदत्तमपि स्तुयाद्वृषलम् । गर्हा । अपि सिञ्च । अपि स्तुहि । समुच्चये ॥ कालाध्वनोरत्यन्तसंयोगे । २।३५ ॥ इह द्वितीया स्यात् । मासं कल्याणी । मासम
I
ते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । अत्यन्तसंयोगे किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ खतन्त्रः कर्ता | १|४|५४ ॥ क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥ साधकतमं करणम् | १|४|४२ ॥ क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् तैमब्ग्रहणं किम् । गङ्गायां घोषः ॥ कर्तृकरणयोस्तृतया | २|३|१८ ॥ अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली || प्रकृत्यादिभ्य उपसंख्यानम् ॥ प्रकृत्या चारुः प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा यातीत्यादि ॥ दिवः कर्म च । १४४३ ॥ दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥ अपवर्गे तृतीया । २३६ ॥ अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः । अपवर्गे किम् । मासमधीतो
।
१ इत्थंभूतस्य कंचित्प्रकारं प्राप्तस्य आख्याने इत्यर्थः ॥ २ अप्रयुज्यमानबिन्दुरूपपदार्थयोतकतेत्यर्थः ॥ ३ तमग्रहणं किमिति कारकाधिकारात्करणल्युडन्तकरणेति महासंज्ञया च साधकत्वै लब्धे साधकग्रहणमेव साधकतमार्थं भविष्यतीति प्रश्नः । गङ्गायामिति अधिकरणमित्यधिकरणत्युङन्तमहासंज्ञयैव सिद्धे आधार ग्रहणसामर्थ्यात्सर्वाक्यवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । एवं च तिलेषु तैलमित्यादावेव सप्तमी स्यान्नतुं गङ्गायामित्यादि गौणाधारे ॥