________________
विभक्त्यर्थाः ।
५३ वाहान् सूतः ॥ आदिखाद्योर्न * ॥ आदयति खादयति वान्नं बटुना ॥ भक्षरहिंसार्थस्य न * ॥ भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् । भक्षयति बलीवर्दान् सस्यम् ॥ जल्पतिप्रभृतीनामुपसंख्यानम् * ॥ जल्पयति भाषयति वा धर्म पुत्रं देवदत्तः ॥ दृशेश्च * ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते । तेन स्मरतिजिघ्रतीत्यादीनां न । स्मारयति ध्रापयति वा देवदत्तेन । शब्दायतेर्न * ॥ शब्दाययति देवदत्तेन । धात्वर्थसंगृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥ हृक्रोरन्यतरस्याम् । श४५३ ॥ हृकोरणौ यः कर्ता स णौ वा कर्म स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् ॥ अभिवादिदृशोरात्मनेपदे वेति वाच्यम् * ॥ अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ॥ अधिशीस्थासां कर्म ।।४।४६॥ अधिपूर्वाणामेषामाधारः कर्म स्यात् अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥ अभिनिविशश्च ।।४।४७॥ अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे संप्रदानमिति सूत्रादिह मण्डूकप्लुत्याऽन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्कचिन्न । पापेऽभिनिवेशः ॥ उपान्वध्यासः ।।४।४८॥ उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिः ॥ अभुक्त्यर्थस्य न * ॥ वने उपवसति ॥ उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ॥ द्वितीयाऽऽनेडितान्तेषु ततोऽन्यत्रापि दृश्यते * ॥ उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् ॥ अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि * ॥ अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया। निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यतेत्यर्थः । बुभुक्षितं न प्रतिभाति किंचित् ॥ अन्तरान्तरेण युक्ते ।२।३।४ ॥ आभ्यां योगे द्वितीया स्यात् । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ॥ कर्मप्रवचनीयाः ।।४।८३ ॥ इत्यधिकृत्य ॥ अनुर्लक्षणे ।।४।८४ ॥ लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ॥ कर्मप्रवचनीययुक्ते द्वितीया ।२।३३८॥ एतेन योगे द्वितीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेताविति तृतीयाऽनेन बाध्यते । लक्षणेत्थंभूतेत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ॥ तृतीयार्थे ।१।४।८५॥ अस्मिन् द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना । नद्या सह संबद्धेत्यर्थः ॥ षिञ् बन्धने क्तः ॥ हीने ॥१॥४८६॥ हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः। हरेहींना इत्यर्थः ॥ उपोधिके च ।१।४।८७॥ अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् । अधिके सप्तमी वक्ष्यते । हीने, उप हरिं सुराः ॥ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः।१।४।९०॥ एष्वर्थेषु विषयभूतेषु प्रत्यादय
ARTHHHHU