________________
सिद्धान्तकौमुद्याम्
तटः । तटी । तटम् । परिमाणमात्रे, द्रोणो त्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् । प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः । वचनं संख्या । एकः । द्वौ । बहवः ! इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ॥ संबोधने च | २|३|४७ ॥ इह प्रथमा स्यात् । हे राम || कारके | १|४|२३ ॥ इत्यधिकृत्य ॥ कर्तुरीप्सिततमं कर्म | १|४|४९ ॥ कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । कर्तुः किम् । माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषा नतु कर्तुः तमब्ग्रहणं किम् । पयसा ओदनं भुङ्क्ते । कर्मेत्यनुवृत्तौ पुनः कर्म - ग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ॥ अनभिहिते | २|३|१ || इत्यधिकृत्य ॥ कर्मणि द्वितीया | २|३|२ || अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि प्रातिपदिकार्थमात्र इति प्रथमैव । अभिधानं तु प्रायेण तिकृत्तद्धितसमासैः । तिङ्, हरिः सेव्यते । कृत्, लक्ष्म्या सेवितः । तद्धितः शतेन क्रीतः शत्यः । समासः, प्राप्त आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानं यथा । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् । सांप्रतमित्यस्य हि युज्यत इत्यर्थः ॥ तथायुक्तं चानीप्सितम् ||४|५० ॥ ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । ग्रामं गच्छन् तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ॥ अकथितं च । १४५१ ॥ अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् । दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथुमुषाम् । कर्मयुक् स्यादकथितं तथा स्यानीहृकृष्वहाम् ॥ दुहादीनां द्वादशानां तथा नीमभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् | अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गाञ् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मनाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलि भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि । कारकं किम् । माणवकस्य पितरं पन्थानं पृच्छति ॥ अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् * ॥ कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ॥ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ । १।४।५२ ॥ गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ॥ शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ १ ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥ गतीत्यादि किम् । पाचयत्योदनं देवदत्तेन । अप्यन्तानां किम् । गमय देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ॥ नीवह्योर्न * ॥ नाययति वाहयति वा भारं भृत्येन ॥ नियन्तृकर्तृकस्य वहेरनिषेधः * ॥ वाहयति रथं
५२