________________
विभक्त्यर्थाः । ण्यः ॥ तस्य स्त्रियामवन्तीत्यादिना लुक् । अयोपधात्किम् । अध्वर्युः ॥ अप्राणिजातेश्चारज्वादीनामुपसंख्यानम् * ॥ रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव । अलाब्वा । कर्कन्ध्वा । अनयोदीर्घान्तत्वेऽपि नोधात्वोरिति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् ॥ प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः । हनुः ॥ बाह्वन्तात्संज्ञायाम् ।४।१।६७ ॥ स्त्रियामूङ् स्यात् । भद्रबाहूः । संज्ञायां किम् । वृत्तबाहुः ॥ पङ्गोश्च ।४।१।६८॥ पङ्गः ॥ श्वशुरस्योकाराकारलोपश्च * ॥ चादूङ् । पुंयोगलक्षणस्य ङीषोऽपवादः । लिङ्गविशिष्टपरिभाषया खादयः । श्वश्रूः ।। ऊरूत्तरपदादौपम्ये ।४।१।६९॥ उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥ संहितशफलक्षणवामादेश्च ।४।११७०॥ अनौपम्याथें सूत्रम् । संहितोरूः । सैव शफोरूः। शफी खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः । सहितसहाभ्यां चेति वक्तव्यम् * ॥ हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा । विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥ संज्ञायाम् ।४।१।७२॥ कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः । कमण्डलूः । संज्ञायां किम् । कद्रुः । कमण्डलुः । अच्छन्दोऽर्थ वचनम् ॥ शाङ्गरवाद्यञो ङीन् ।४।१।७३ ॥ शार्ङ्गरवादेरओ योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी । बैदी। जातेरित्यनुवृत्तेः पुंयोगे ङीषेव । नृनरयोर्वृद्धिश्चेति गणसूत्रम् । नारी ॥ यङश्चाप् ।४।१।७४॥ यङन्तात् स्त्रियां चाप् स्यात् । यङ इति ज्यष्यङोः सामान्यग्रहणम् । आम्बष्ठ्या । कारीषगन्ध्या ॥ षाधाश्वाप् वाच्यः * ॥ पौतिमाष्या ॥ आवट्याच ।४।१७५ ॥ अस्माच्चाप् स्यात् । यञश्चेति ङीपोऽपवादः । अवटशब्दो गर्गादिः । आवट्या ॥ तद्धिताः ।४।११७६॥ आपञ्चमसमातेरधिकारोऽयम् ॥ यूनस्तिः ।४।१७७॥ युवनशब्दात्तिप्रत्ययः स्यात्स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तात् ङीपि बोध्यम् ॥ इति स्त्रीप्रत्ययाः॥
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।।३२४६॥ नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः। प्रातिपदिकार्थमात्रे लिङ्गमात्राधिक्ये परिमाणमात्रै संख्यामात्रे च प्रथमा स्यात् । उच्चैः। नीचैः । कृष्णः । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य ।
१ शार्ङ्गरव, कापटव, गौग्गुलव, ब्राह्मण, गौतम, कामण्डलेय, ब्राह्मणकृतेय, आतिथेय, भानिधेय, आशोकेय, वात्स्यायन, मौजायन, कैकसेय, काप्य, शैब्य, एहि, पर्येहि, आश्मरथ्य, औदपान, अराल, चण्डाल, वतण्ड, भोगवदगौरमतोः संज्ञायां घादिषु नित्यं हवार्थम् । नृनरयोवृद्धिश्च । इति शार्ङ्गरवादिः । पुत्रशब्दोऽप्यत्र पठ्यते। तेन पुत्री शैलपुत्रीत्यपि सिद्धम् ॥ २ यस्मिन् प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेन उपस्थितिः स प्रातिपदिकार्थ इत्यर्थः॥