________________
सिद्धान्तकौमुद्याम्
तुङ्गनासिकी । तुङ्गनासिका इत्यादि । नेह । सहनासिका । अनासिका । अत्र वृत्तिः ॥ अङ्गगात्रकण्ठेभ्यो वक्तव्यम् * ॥ खङ्गी । खङ्गेत्यादि । एतच्चानुक्तसमुच्चयार्थेन चकारेण संग्राह्यमिति केचित् । भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः । अत्र वार्तिकानि ॥ पुच्छाच्च * ॥ सुपुच्छी । सुपुच्छा ॥ कबरमणिविषशरेभ्यो नित्यम् * ॥ कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि ॥ उपमानात्पक्षाच्च पुच्छाच्च * ॥ नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥ न क्रोडांदिबह्वचः |४|११५६ ॥ क्रोडादेर्बह्वचश्च खाङ्गान्न ङीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृतिगणोऽयम् । सुजधना || सहनञ्विद्यमान
पूर्वाच्च |४|११५७ ॥ सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥ नखमुखात्संज्ञायाम् |४|११५८ || ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् । ताम्रमुखी कन्या || दिक्पूर्वपदान्ङीप् |४|१|६० ॥ दिक्पूर्वपदात्खाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् || वाहः |४|१|६१ ॥ वाहन्तात्प्रातिपदिकात् ङीष् स्यात् । ङीषेवानुवर्तते न ङीप् । दित्यवाट् च॑ मे दित्या॒ही मे ॥ सख्यशिश्वीति भाषायाम् ||४|१|६२ ॥ इतिशब्दः प्रकारे भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी । आधे॒नवो॑ द्यु॒नय॑न्ता॒ममि॑श्वीः ॥ जातेरस्त्रीविषयादपोधात् |४|१|६३ ॥ जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् ॥ ओकृतिग्रहणा जातिः * ॥ अनुगतसंस्थानव्यङ्गवेत्यर्थः । तटी ॥ लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या * ॥ असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । वृषली । सत्यन्तं किम् । शुक्ला । सकृदित्यादि किम् । देवदत्ता ॥ गोत्रं च चरणैः सह * ॥ अपत्यप्रत्ययान्तः शाखाध्येतृवाची चशब्दो जातिकार्यं लभत इत्यर्थः । औपगवी । कठी । बह्वृची । ब्राह्मणीत्यत्र तु शार्ङ्गरवा - दिपाठात् ङीना ङीष् बाध्यते । जातेः किम् । मुण्डा । अस्त्रीविषयात्किम् । बलाका । अयोपधात्किम् । क्षत्रिया ॥ योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः * ॥ हयी । गवयी । मुकयी । हलस्तद्धितस्येति यलोपः । मानुषी । मत्स्यस्य ड्याम् ॥ मत्सी ॥ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च |४|१|६४ ॥ पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि ङीष् स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोवाली । ओषधिविशेषे रूढा एते ॥ इतो मनुष्यजातेः |४|१|६५ ॥ ङीष् स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं औदमेयी । मनुष्येति किम् । तित्तिरिः ॥ ऊडुतः |४|१।६६ ।। उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः ॥ कुरुनादिभ्यो
1
५०
१ क्रोड, नख, खुर, गोखा, उखा, शिखा, वाल, शफ, शुक्र । आकृतिगणोऽयम् । तेन भग, गल, घोण, नाल, भुज, गुद, कर, इत्यादि । इति क्रोडादिः ॥ २ इदं श्लोकवार्तिकम् ॥ ३ इञ उपसंख्यानम् । सौतंगमी । मौनचिती । तेन निर्वृत्तमित्यर्थे चातुर्थिक इञ् ॥