________________
स्त्रीप्रत्ययाः । गोपस्य स्त्री गोपी ॥ पालकान्तान्न * ॥ गोपालिका । अश्वपालिका ॥ सूर्याद्देवतायां चाप् वाच्यः * ॥ सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् । सूरी कुन्ती । मानुषीयम् ॥ इन्द्रवरुणभवशवेरुद्रमृडहिमारण्ययवयवनमातुलाचायोणामानुक् ।४।१।४९॥ एषामानुगागमः स्यात् ङीष् च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी ॥ हिमारण्ययोर्महत्त्वे * ॥ महद्धिमं हिमानी। महदरण्यं अरण्यानी ॥ यवादोषे * ॥ दुष्टो यवो यवानी ॥ यवनाल्लिप्याम् * ॥ यवनानां लिपिर्यवनानी ॥ मातुलोपाध्याययोरानुग्वा * ॥ मातुलानी । मातुली । उपाध्यायानी । उपाध्यायी ॥ या तु खयमेवाध्यापिका तत्र वा ङीष् वाच्यः * ॥ उपाध्यायी । उपाध्याया ॥ आचार्यादणत्वं च * ॥ आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या स्वयं व्याख्यात्री ॥ अर्यक्षत्रियाभ्यां वा खार्थे * ॥ अर्याणी । अर्या । खामिनी वैश्या वेत्यर्थः । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्थी । क्षत्रियी। कथं ब्रह्माणीति । ब्रह्माणमानयति जीवियतीति कर्मण्यण् ॥ क्रीतात्करणपूर्वात् ।४।१५०॥ क्रीतान्ताददन्तात्करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥ क्तादल्पाख्यायाम् ।४।११५१ ॥ करणादेः क्तान्तात् स्त्रियां ङीष् स्यादल्पत्वे द्योत्ये । अलिप्ती द्यौः ॥ बहुव्रीहेश्चान्तोदात्तात् ।४।११५२ ॥ बहुव्रीहेः तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीष् स्यात् ॥ जातिपूर्वादिति वक्तव्यम् * ॥ तेन बहुनसुकालसुखादिपूर्वान्न । ऊरुभिन्नी । नेह । बहुकृता ॥ जातान्तान्न * ॥ दन्तजाता । पाणिगृहीती भार्यायाम् * ॥ पाणिगृहीतान्या ॥ अवाङ्गपूर्वपदाद्वा ।४।११५३ ॥ पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सुरापीती । सुरापीता । अन्तोदात्तात्किम् । वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वेणापि न ङीष् ॥ खागाच्चोपसर्जनादसंयोगोपधात् ।४।१।५४ ॥ असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीष् । केशानतिक्रान्ता अतिकेशी । अतिकेशा । चन्द्रमुखी। चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । उपसर्जनास्किम् । शिखा । खाङ्गं त्रिधा । अंद्रवं मूर्तिमत्वाङ्गं प्राणिस्थमविकारजम् * ॥ सुखेदा । द्रवत्वात् । सुज्ञाना । अमूर्तत्वात् । सुमुखा शाला । अप्राणिस्थत्वात् । सुशोफा । विकारजत्वात् ॥ अतत्स्थं तत्र दृष्टं च * ॥ सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् ॥ तेन चेत्ततथा युतम् * ॥ सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥ नासिकोदरौष्ठजवादन्तकर्णशृङ्गाच।४।१।२५॥ एभ्यो वा ङीष् स्यात् । आद्ययोर्बह्वलक्षणो निषेधो बाध्यते । पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् । मध्येऽपवादन्यायात् । सहनलक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः ।
१ इदं श्लोकवार्तिकम् ॥ २ मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान् । तेनौष्ठादिषु पञ्चसु असंयोगोपधादिति निषेध एव बाध्यते नतु सहनश्विद्यमान इति । पूर्वोपस्थितबाधेन नैराकाङ्क्षयमस्यां बीजम् ॥