________________
स्त्रीप्रत्ययाः । स्याद्यज्ञेन संबन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोक्रीत्यर्थः । दम्पत्योः सहाधिकारात् । विभाषा सपूर्वस्य ।४।१॥३४॥ पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः । गृहपत्नी । अनुपसर्जनस्येतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किंतु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी । दृढपतिः । वृषलपत्नी। वृषलपतिः। अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारकिबन्तात्कर्तरि विप् । अस्मिंश्च पक्षे पत्नियौ पत्नियः इतीयविषये विशेषः । सपूर्वस्य किम् । गवां पतिः स्त्री ॥ नित्यं संपन्यादिषु ॥४॥१॥३५॥ पूर्वविकल्पापवादः समानस्य सभावोऽपि निपात्यते । समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ॥ पूतक्रतोरै च ।४।१॥३६॥ इयं त्रिसूत्री पुंयोग एवेष्यते ॥ पूतक्रतोः स्त्री पूतक्रतायी । यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा ॥ वृषाकप्यग्निकुसितकुसिदानामुदात्तः।४।१।३७ ॥ एषामुदात्त ऐ आदेशः स्यात् ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौोरिति च । अमायी । कुसितायी । कुसिदायी । कुसिदशब्दो हखमध्यो नतु दीर्घमध्यः ॥ मनोरौ वा ।४।११३८॥ मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा ताभ्यां संनियोगशिष्टो ङीप् च । मनोः स्त्री मनावी । मनायी । मनुः ॥ वर्णादनुदात्तात्तोपधात्तो न: ।४।१॥३९॥ वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । वर्णानां तणतिनितान्तानामिति फिट्सूत्रेणाद्युदात्तः । व्येण्या च शलल्येति गृह्यसूत्रम् । त्रीण्येतानि यस्या इति बहुव्रीहिः । अनुदात्तात्किम् । श्वेता । घृतादीनां चेत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री । पिशङ्गादुपसंख्यानम् * ॥ पिशङ्गी । पिशङ्गा ॥ असितपलितयोर्न * ॥ असिता । पलिता ॥ छन्दसि कमेके * ॥ असिनी । पलिक्नी ॥ अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । तेन अवदाता इत्येव ॥ अन्यतो ङीष् ।४।१।४० ॥ तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्ताप्रातिपदिकात्. स्त्रियां ङीष् स्यात् । कल्माषी । सारङ्गी । लघावन्ते द्वयोश्च बह्वषो गुरुरिति मध्योदात्तावेतौ । अनुदात्तान्तात्किम् । कृष्णा कपिला ॥ षिद्गौरादिभ्यश्च ।४।१॥४१॥ षिभ्यो
१ समान, एक, वीर, पिण्ड, श्व, भ्रातृ, भद्र, पुत्र, दासाच्छन्दसि । इति समानादिः॥ २ गौर, मत्स्य, मनुष्य, शुज, पिङ्गल, हय, गवय, मुकय, ऋष्य, पुट, तूण, द्रुण, द्रोण, हरिण, काकण, पटर, उणक, आमलक, कुवल, बिम्ब, बदर, कर्कर, तर्कार, शार, पुष्कर, शिखण्ड, सदल, शुष्काण्ड, सनन्द, सुषम, सुषव, अलिन्द, गुडुल, पाण्डश, आढक, आनन्द, अश्वत्थ, सुपाठ, आपचिक, शष्कुल, सूर्म, शूपे, सूत्र, यूष, यूथ, सूप, पूप, मेय, वल्लक, धातक, सल्लक, मालक, मालत, साल्वक, वेतस, बृस, उभय, भृङ्ग, दह, मठ, छेद, पेश, मेद, श्वन् , तक्षन् , अनडु, अनड्वाह् , एषणः, करेण, देह, देहल, काकादन, गवादन, तेजन, रजन, लवण, औद्गाहमानि, गौतम, पारक, अयःस्थूण, भौरिक, भौलिकि, भोलिङ्गि, यान, मेध, आलिम्बि, आलजि, आलब्धि, आलक्षि, केवाल, आपक, आरट, नट, टोट, नोट, मूलाट, शातन, पोतर, पातन, पाटन, आस्तरण, अधिकरण, अधिकार, आग्रहायण, प्रत्यवरोहिन् , सेचन, सुमङ्गलात्संज्ञायाम् । अण्डर, सुन्दर, मङ्गल, मन्थर, मण्डल, पट, पिण्ड, पिटक, षण्ड, उर्द, गुर्द, शम, सूद, आर्द, हृद, पाण्ड, भाण्ड, लोहाण्ड, कदर, कल, कन्दर, तरुण, तलुन, कल्माष, बृहत् ,