________________
सिद्धान्तकौमुद्याम् दन्तात् स्त्रियां ङीप् स्यात् । कुमारी ॥ वयस्यचरम इति वाच्यम् * ॥ वधूटी । चिरण्टी। वधूटचिरण्टशब्दो यौवनवाचिनौ । अतः किम् । शिशुः । कन्याया न । कन्यायाः कनीन चेति निर्देशात् ॥ द्विगोः॥४॥२१॥ अदन्ताविगोर्डीप् स्यात् । त्रिलोकी । अजादित्वात्रिफला । त्र्यनीका सेना ॥ अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ।४।२।२२ ॥ अपरिमाणान्ताद्विस्ताद्यन्ताच्च द्विगोर्डीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आहीयष्ठक् । अध्यर्धेति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु व्याढकी । तद्धितलुकि किम् । समाहारे पञ्चाश्वी ॥ काण्डा.
तात्क्षेत्रे ।४।१।२३ ॥ क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि । वे काण्डे प्रमाणमस्याः सा द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे द्वयसजिति विहितस्य मात्रचः प्रमाणे लो द्विगोर्नित्यमिति लुक् । क्षेत्रे किम् । द्विकाण्डी रज्जुः ॥ पुरुषात्प्रमाणेऽन्यतरस्याम् ।४।१।२४ ॥ प्रमाणे यः पुरुषस्तदन्ताविगोर्डीब वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिखा ॥ ऊधसोऽनङ् ।।४।१३१ ॥ ऊधोऽन्तस्य बहुव्रीहेरनङादेशः स्यात् स्त्रियाम् । इत्यनङि कृते डाप्डीग्निषेधेषु प्राप्तेषु ॥ बहुव्रीहेरूधसो ङीप् ४॥१२५॥ ऊधोन्ताबहुव्रीहेर्जीप् स्यात् स्त्रियाम् । कुण्डोनी । स्त्रियां किम् । कुण्डोधो धैनुकम् । इहाऽनङपि न । तद्विधौ स्त्रियामित्युपसंख्यानात् ॥ संख्याऽव्ययादेमप् ।४।१। २६ ॥ ङीषोऽपवादः । यूनी । अत्यूनी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ॥ दामहायनान्ताच ।४।१।२७ ॥ संख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात् । दामान्ते डापप्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डान्निषेधावपि पक्षे स्तः । द्विहायनी बाला ॥ त्रिचतुर्ध्या हायनस्य णत्वं बाच्यम् * ॥ वयोवाचकस्यैव हायनस्य ङीब् णत्वं चेष्यते * ॥ त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । निहायना । चतुर्हायना शाला ॥ नित्यं संज्ञाछन्दसोः ।४।१।२९ ॥ अन्नन्ताबहुव्रीहेरुपधालोपिनो ङीप् । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूनी ॥ केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच ।४।१॥३०॥ एभ्यो नवभ्यो नित्यं ङीप् स्यात्संज्ञाछन्दसोः । अौ त इन्द्रः केवलीर्विशः । मामकी । भागधेयी। पापी । अपरी । समानी । आर्यकृती । सुमङ्गली । भेषजी । अन्यत्र केवला इत्यादि । मामकग्रहणं नियमार्थम् । अण्णन्तत्वादेव सिद्धेः । तेन लोकेऽसंज्ञायां मामिका ॥ अन्तर्वत्पतिवतोर्नु ।४।१॥३२॥ एतयोः स्त्रियां नुक् स्यात् ॥ ऋन्नेभ्यो ङीप् ॥ गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते । तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तःशब्दस्याधिकरणशक्तिप्रधानतयाऽस्तिसामानाधिकरण्याभावादप्राप्तो मतुब् निपात्यते । पतिवनीत्यत्र तु वत्त्वं निपात्यते । अन्तर्वनी । पतिवनी । प्रत्युदाहरणं तु । अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी ॥ पत्यु! यज्ञसंयोगे ।४।१।३३ ॥ पतिशब्दस्य नकारादेशः