________________
धातुपाठे चुरादयः ।
४७९ १०० षट्ट १०१ स्फिट्ट १०२ चुबि हिंसायाम् ॥ १०३ पूल संघाते ॥ पूर्ण इत्येके । पुण इत्यन्ये ॥ १०४ पुस अभिवर्धने । १०५ टकि बन्धने । १०६ धूस कान्तिकरणे । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यन्ये ॥ १०७ कीट वर्णे । १०८ चूर्ण संकोचने । १०९ पूज पूजायाम् । ११० अर्क स्तवने ॥ तपने इत्येके ॥ १११ शुठ आलस्ये । ११२ शुठि शोषणे । ११३ जुड प्रेरणे । ११४ गज ११५ मा शब्दार्थो । ११६ मर्च च । ११७ घृ प्रस्रवणे ॥ स्रावणे इत्येके ॥ ११८ पचि विस्तारवचने। ११९ तिज निशाने । १२० । कृत संशब्दने । १२१ वर्ध छेदनपूरणयोः । १२२ कुबि आच्छादने । कुभि इत्येके ॥ १२३ लुबि १२४ तुबि अदर्शने ॥ अर्दने इत्येके ॥ १२५ ह्रप व्याक्तायां वाचि ॥ क्लप इत्येके ॥ १२६ चुटि छेदने । १२७ इल प्रेरणे । १२८ म्रक्ष म्लेच्छने । १२९ म्लेच्छ अव्यक्तायां वाचि । १३० ब्रूस १३१ बर्ह हिंसायाम् ॥ केचिदिह गर्ज गर्द शब्दे, गर्ध अभिकाङ्क्षायाम् इति पठन्ति ॥ १३२ गुर्द पूर्वनिकेतने । १३३ जसि रक्षणे ॥ मोक्षणे इति केचित् ॥ १३४ ईड स्तुतौ । १३५ जसु हिंसायाम् । १३६ पिडि संघाते । १३७ रुष रोषे ॥ रुठ इत्येके ॥ १३८ डिप क्षेपे । १३९ ष्टुप समुच्छ्राये ॥ आकुस्मादात्मनेपदिनः ॥ १४० चित संचेतने । १४१ दशि दंशने । १४२ दसि दर्शनदंशनयोः ॥ दस इत्यप्येके ॥ १४३ डप १४४ डिप संघाते । १४५ तत्रि कुटुम्बधारणे । १४६ मत्रि गुप्तपरिभाषणे । १४७ स्पश ग्रहणसंश्लेषणयोः । १४८ तर्ज १४९ भर्ल्स तर्जने । १५० बस्त १५१ गन्ध अर्दने । १५२ विष्क हिंसायाम् ॥ हिष्क इत्येके ॥ १५३ निष्क परिमाणे । १५४ लल ईप्सायाम् । १५५ कूण संकोचे १५६ तूण पूरणे । १५७ भ्रूण आशाविशङ्कयोः । १५८ शठ श्लाघायाम् । १५९ यक्ष पूजायाम् । १६० स्मय वितर्के । १६१ गूर उद्यमने । १६२ शम १६३ लक्ष आलोचने । १६४ कुत्स अवक्षेपणे । १६५ त्रुट छेदने । कुट इत्येके १६६ गल स्रवणे । १६७ भल आभण्डने । १६८ कूट आप्रदने ॥ अवसादने इत्येके ॥ १६९ कुट्ट प्रतापने । १७० वञ्च प्रलम्भने । १७१ वृष शक्तिबन्धने । १७२ मद तृप्तियोगे । १७३ दिवु परिकूजने । १७३ गृ विज्ञाने । १७५ विद चेतनाख्याननिवासेषु । १७६ मान स्तम्भे । १७७ यु जुगुप्सायाम् । १७८ कुस्म नानो वा कुत्सितस्मयने ॥ इत्याकुस्मीयाः ॥ १७९ चर्च अध्ययने । १९९ बुक्क भषणे । १८१ शब्द उपसर्गादाविष्कारे च । १८२ कण निमीलने । १८३ जभि नाशने । १८४ षूद क्षरणे । १८५ जसु ताडने । १८६ पश बन्धने । १८७ अम रोगे। १८८ चट १८९ स्फुट भेदने । १९० घट संघाते ॥ हन्त्यर्थाश्च ॥ १९१ दिवु मर्दने । १९२ अर्ज प्रतियत्ने । १९३ घुषिर विशब्दने । १९४ आङः क्रन्द सातत्ये । १९५ लस शिल्पयोगे। १९६ तसि १९७ भूष अलंकरणे । १९८ अर्ह पूजायाम् । १९९ ज्ञा नियोगे । २०० भज विश्राणने । २०१ शृधु प्रसहने । १०२ यत निकारोपस्कारयोः । २०३