________________
४७८
सिद्धान्तकौमुद्याम् । ५६ प्लुष स्नेहनसेवनपूरणेषु । ५७ पुष पुष्टौ । ५८ मुव स्तेये । ५९ खच भूतप्रादुर्भावे ॥ वान्तोऽयमित्येके ॥ ६० हिठ च ॥ श्रन्थादय उदात्ता उदात्तेतो विषिवर्ज परस्मैभाषाः ॥ ६१ ग्रह उपादाने ॥ उदात्तः खरितेदुभयतोभाषः॥
इति श्नविकरणाः स्यादयः ॥९॥
१ चुर स्तेये । २ चिति स्मृत्याम् । ३ यत्रि संकोचे । ४ स्फुडि परिहासे ॥ स्फुटि इत्यपि ॥ ५ लक्ष दर्शनाङ्कनयोः । ६ कुद्रि अनृतभाषणे । ७ लड उपसेवायाम् । ८ मिदि स्नेहने । ९ ओलडि उत्क्षेपणे ॥ ओकारो धात्ववयव इत्येके । न इत्यपरे । उलडि इत्यन्ये ॥ १० जल अपवारणे ॥ लज इत्येके ॥ ११ पीड अवगाहने । १२ नट अवस्यन्दने । १३ श्रथ प्रयत्ने ॥ प्रस्थाने इत्येके ॥ १४ बध संयमने ॥ बन्ध इति चान्द्राः ॥ १५ पृ पूरणे । १६ ऊर्ज बलप्राणनयोः। १७ पक्ष परिग्रहे । १८ वर्ण १९ चूर्ण प्रेरणे ॥ वर्ण वर्णने इत्येके ॥ २० प्रथ प्रख्याने । २१ पृथ प्रक्षेपे ॥ पथ इत्येके ॥ २२ पम्ब संबन्धने । २३ शम्ब च ॥ साम्ब इत्येके ॥ २४ भक्ष अदने । २५ कुट्ट छेदनभर्त्सनयोः ॥ पूरणे इत्येके ॥ २६ पुट्ट २७ चुट्ट अल्पीभावे । २८ अट्ट २९ षुट्ट अनादरे। ३० लुण्ठ स्तेये । ३१ शठ ३२ श्वठ असंस्कारगत्योः ॥ श्वठि इत्येके ॥ ३३ तुजि ३४ पिजि हिंसाबलादाननिकेतनेषु ॥ तुज पिज इति केचित् । लजि लुजि इत्येके ॥ ३५ पिस गतौ । ३६ षान्त्व सामप्रयोगे । ३७ श्वल्क ३८ वल्क परिभाषणे । ३९ प्णिह स्नेहने ॥ स्फिट इत्येके ॥ ४० स्मिट अनादरे ॥ ष्मिङ् इत्येके ॥ ४१ श्लिष श्लेषणे । ४२ पथि गतौ । ४३ पिच्छ कुट्टने । ४४ छदि संवरणे । ४५ श्रण दाने । ४६ तड आघाते । ४७ खड ४८ खडि ४९ कडि भेदने । ५० कुडि रक्षणे । ५१ गुडि वेष्टने ॥ रक्षणे इत्येके । कुठि इत्यन्ये । गुठि इत्यपरे ॥ ५२ खुडि खण्डने । ५३ वटि विभाजने ॥ वडि इति केचित् ॥ ५४ मडि भूषायां हर्षे च । ५५ भडि कल्याणे । ५६ छर्द वमने । ५७ पुस्त ५८ बुस्त आदरानादरयोः । ५९ चुद संचोदने । ६० नक्क ६१ धक्क नाशने । ६२ चक्क ६३ चुक व्यथने । ६४ क्षल शौचकर्मणि । ६५ तल प्रतिष्ठायाम् । ६६ तुल उन्माने । ६७ दुल उत्क्षेपे । ६८ पुल महत्त्वे । ६९ चुल समुच्छ्राये । ७० मूल रोहणे । ७१ कल ७२ विल क्षेपे । ७३ बिल भेदने । ७४ तिल स्नेहने । ७५ चल भृतौ । ७६ पाल रक्षणे । ७७ लुष हिंसायाम् । ७८ शुल्ब माने । ७९ शूर्प च । ८० चुट छेदने । ८१ मुट संचूर्णने । ८२ पडि ८३ पसि नाशने । ८४ व्रज मार्गसंस्कारगत्योः । ८५ शुल्क अतिस्पर्शने । ८६ चपि गत्याम् । ८७ क्षपि क्षान्त्याम् । ८८ छजि कृच्छ्रजीवने । ८९ श्वर्त गत्याम् । ९० श्वभ्र च । ९१ ज्ञप ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु ॥ मिच्चत्येके ॥ ९२ यम च परिवेषणे । ९३ चह परिकल्कने ॥ चप इत्येके ॥ ९४ रह त्यागे च । ९५ बल प्राणने । ९६ चिञ् चयने ॥ नान्ये मितोहेतौ ॥ ९७ घट्ट चलने । ९८ मुस्त संघाते । ९९ खट्ट संवरणे ।