________________
धातुपाठे ज्यादयः । उदात्तौ खरितेतावुभयतोभाषौ ॥ १० कृती वेष्टने ॥ उदात्त उदात्तत्पर स्मैपदी ॥ ११ जिइन्धी दीप्तौ ॥ उदात्तोऽनुदात्तेदात्मनेपदी ॥ १२ खिंद दैन्ये । १३ विद विचारणे ॥ अनुदात्तावनुदात्तेतावात्मनेपदिनौ ॥ १४ शिष्ल विशेषणे । १५ पिप्ल संचूर्णने । १६ भञ्जो आमर्दने । १७ भुज पालनाभ्यवहारयोः ॥ शिषादयोऽनुदात्ता उदात्ततः परस्मैभाषाः॥१८ तृह १९ हिसि हिंसायाम् । २० उन्दी क्लेदने । २१ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । २२ तञ्चू संकोचने । २३ ओविजी भयचलनयोः । २४ वृजी वर्जने । २५ पृची संपर्के ॥ तृहादय उदात्ता उदात्तेतः परस्मैपदिनः ॥ वृत् ॥
इति श्नम्विकरणा रुधादयः॥७॥
१ तनु विस्तारे । २ षणु दाने । ३ क्षणु हिंसायाम् । ४ क्षिणु च । ५ ऋणु गतौ । ६ तृणु अदने । ७ घृणु दीप्तौ ॥ तनादय उदात्ताः खरितेत उभयतोभाषाः॥ ८ वनु याचने । ९ मनु अवबोधने ॥ उदात्तावनुदात्तेतावात्मनेभाषौ ॥ १० डुकृञ् करणे ॥ अनुदात्त उभयतोभाषः॥
इति उविकरणास्तनादयः॥८॥
१ डुक्रीञ् द्रव्यविनिमये । २ प्रीञ् तर्पणे कान्तौ च । ३ श्रीञ् पाके । ४ मीञ् हिंसायाम् । ५ षिञ् बन्धने । ६ स्कुञ् आप्रवणे । ७ युञ् बन्धने ॥ ज़्यादयोऽनुदात्ता उभयतोभाषाः॥ ८ नूञ् शब्दे । ९ द्रू हिंसायाम् । १० पूञ् पवने । ११ लूञ् छेदने । १२ स्तृञ् आच्छादने । १३ कृञ् हिंसायम् । १४ वृञ् वरणे । १५ धूञ् कम्पने ।
प्रभृतय उदात्ता उभयतोभाषाः॥ १६ शू हिंसायाम् । १७ पृ पालनपूरणयोः । १८ वृ वरणे ॥ भरणे इत्येके ॥ १९ भृ भर्त्सने । २० शू हिंसायाम् । २१ दृ विदारणे । २२ ज़ वयोहानौ ॥ झ इत्येके । धृ इत्यन्ये ॥ २३ नृ नये । २४ कृ हिंसायाम् । २५ ऋ गतौ । २६ गृ शब्दे ॥ शृणातिप्रभृतय उदात्ता उदात्तेतः परस्मैपदिनः ॥ २७ ज्या वयोहानौ । २८ री गतिरेषणयोः । २९ ली श्लेषणे । ३० व्ली वरणे । ३१ प्ली गतौ ॥ वृत् ॥ ३२ वी वरणे । ३३ श्री भये ॥ भर इत्येके ॥ ३४ क्षीष् हिंसायम् । ३५ ज्ञा अवबोधने । ३६ बन्ध बन्धने ॥ ज्यादयोऽनुदात्ता उदात्ततः परस्मैभाषाः ॥ ३७ वृङ् संभक्तौ ॥ उदात्त आत्मनेपदी ॥ ३८ श्रन्थ विमोचनप्रतिहर्षयोः । ३९ मन्थ विलोडने । ४० श्रन्थ ४१ ग्रंथ संदर्भ । ४२ कुन्थ संश्लेषणे ॥ संक्लेशे इत्येके । कुथ इति दुर्गः ॥ ४३ मृद क्षोदे । ४४ मृड च ॥ अयं सुखेऽपि ॥ ४५ गुध रोषे । ४६ कुष निष्कर्षे । ४७ क्षुभ संचलने । ४८ णभ ४९ तुभ हिंसायाम् । ५० क्लिशू विबाधने । ५१ अश भोजने । ५२ उधस उञ्छे । ५३ इष आभीक्ष्ण्ये । '५४ विष विप्रयोगे । ५५ पुष